४. यत्र आकाङ्क्षानिवृत्तयेऽर्थान्तरमध्याह्नियते साध्याहारनैयायिकी। यंथा—
न दानेन न मानेन न शाठ्येन न सेवया।
न शस्त्रेण न शास्त्रेण सर्वथा किमपि स्त्रियः॥ १९॥
अत्र वशीभवन्तीत्यादिरध्याहारः।
५. यत्र लिङ्गादेरश्रुतौ विधिर्निषेधो वा सर्ववाक्यानां विधिनिषेधपरत्वेन प्रकल्प्यते, सा वाक्यशेषनैयायिकी। यथा—
तदेतत् काकतालीयं तदेतद् वा घुणाक्षरम्।
यदनात्मवतामायुर्यच्चानीतिमतां श्रियः॥ २०॥
तस्मादात्मवता नीतिमता भवितव्यमिति वाक्यशेषः।
६. यत्र सन्निहितानुपपत्तौ व्यवहितमाश्रीयते सा व्यवहितकल्पनानैयायिकी। यथा—
दिलीपानन्तरं राज्ये तं निशम्य प्रतिष्ठितम्।