१. यत्र पूर्वोक्तमेव वाक्यमर्थान्तरे वक्त्रन्तरादिभिरूहयित्वा निवेश्यते ताम् ऊहनैयायिकीम् आमनन्ति। तद्यथा कालिदासः 'किं कुन्तलेश्वरः करोति' इति विक्रमादित्येन पृष्ट उक्तवान्—
असकलहसितत्वात् क्षालितानीव कान्त्या मुकुलितनयनत्वाद् व्यक्तकर्णोत्पलानि।
पिबति मधुसुगन्धीन्याननानि प्रियाणां त्वयि विनिहितभारः कुन्तलानामधीशः॥
इदमेवोहयित्वा विक्रमादित्यः प्रत्युवाच—
पिबतु मधुसुगन्धीन्याननानि प्रियाणां
मयि विनिहितभारः कुन्तलानामधीशः॥ १४॥
२. यत्र पाठक्रमेण सम्बन्धानुपपत्तावर्थक्रमेण विपर्यस्य पदानि योजयन्ते, सा विपर्ययनैयायिकी यथा—(कुसं. ५.२८)
स्वयं विशीर्णद्रुमपर्णवृत्तिता परा हि काष्ठा तपसस्तया पुनः।
तदप्यवा/पाकीर्णमतः प्रियंवदां वदन्त्यपर्णेति च तां पुराविदः॥ १५॥
३. अत्रातस्तां प्रियंवदामपर्णां वदन्ति पुराविद इति पर्यायेण पदानि योज्यन्ते। यत्र तुल्यार्थपदप्रयोगे विभक्तिविपरिणामेन विशेषणविशेष्ययोर्योज्यन्ते, सा विपरिणामनैयायिकी। यथा—(माघ. ४.४०)