भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 61 to 70 of 746 verses
(सर्व—सलवणा गौरी अधरस्य मधुरः स्वादः।

तिक्‍ता अम्ला प्रलोकने विरह एव कटुकः कषायः॥)

अत्र रूपं वर्णयन्प्रसङ्गतः षड्रसानभिमतानभिमतत्वं च तेषां निर्दिशति। द्वितीया यथा— (मुरा. ३.२१)

प्रत्यग्रोन्मेषजिह्मा क्षणमनभिमुखी रत्नदीपप्रभाणा—

मात्मव्यापारगुर्वी जनितजललवा जृम्भणैः साङ्गभङ्गैः।

नागाङ्कं मोक्तुमिच्छोः शयनमुरुफणाचक्रवालोपधानं

निद्राच्छेदाभिताम्रा चिरमवतु हरेर्दृष्टिराकेकरा वः॥ १२॥

अत्र मुद्राराक्षसे चाणक्येन कौमुदीमहोत्सवे निषिद्धे राक्षस(प्र)(युक्तो) वैतालिकः प्रभाते मङ्गलानि पठन् शरदवतारो वर्तत इति चन्द्रगुप्‍तस्य गुप्‍तमावेदयति।

(२. नैयायिकी)

अथ नैयायिकी।

Showing 61 to 70 of 746 verses