हविःशमीपल्लवलाजगन्धिः पुण्यः कृशानोरुदियाय धूमः।
कर्णान्तसंसर्पिशिखस्स तस्या मुहूर्तकर्णोत्पलतां प्रपेदे ॥ १० ॥
सच्चं भणामि वालअ णिअअं चिअ वल्लहं जीअं।
तं तुइ विणा ण होइ त्ति तेण कुलअ/कुविअ कुविअंपसाएमि ॥
(सत्यं भणामि बालक नियतमेव वल्लभं जीवितम्।
तत् त्वया विना न भवतीति तेन कुलजं कुपितं प्रसादयामि ॥)
रूढ्या यत्रासदर्थोऽपि लोके शब्दो निवेशितः।
स मुख्यस्तत्र तत्साम्याद् गौणोऽन्यत्र स्खलद्गतिः ॥ १२ ॥