भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 71 to 80 of 1676 verses
(६. मुख्यम्)

तत्र मुख्यं यथा— गौरनुबन्ध्य इति। अत्र गोशब्दो मुख्यवृत्त्या सास्नादिमत्पदार्थे वर्तते।

(७. गौणम्)

गौणं यथा— गौर्वाहीक इति। अत्र गोशब्द एव तिष्ठन्मूत्रादिगुणसम्पदा बाहीके वर्तमानो गौणीं वृत्तिमनुभवति। तत्र कविप्रयोगे मुख्यं यथा—

जयति भुजगरज्जुग्रन्थिनिष्पीडितेन्दुस्त्रवदमृतनिवृत्तप्रेतभावैः कपालैः।

विरचितनुतिबन्धो मूर्ध्नि सद्यः पुरारेः परिणतबहुकल्पब्रह्मणां ब्रह्मघोषः ॥ १३ ॥

गौणं यथा—(उराच. १.३८)

इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयो— रसावस्याः स्पर्शो वपुषि बहुलश्चन्दनरसः।

अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो, यदि परमसह्यस्तु विरहः ॥ १४ ॥

(८. व्यापकम्)

Showing 71 to 80 of 1676 verses