विहिदु खणु मुंडमालिए जं पणएण तं णमहु कुसुमदाम—कोदंडु कामहो ॥ १७ ॥
(शीर्षे शेखरः क्षणं विनिर्मापितः क्षणं कण्ठे प्रालम्बः कृतो रत्या।
रचिता क्षणं मुण्डमालिका यत् प्रणयेन तन्नमत कुसुमदामकोदण्डं कामस्य ॥)
संक्षिप्ताभिधानं लघु वीप्सा, एकशेषः, संज्ञा, कर्मधारयाद् बहुव्रीहिः इत्यादि।
तद्विपरीतं गुरु, अवीप्सा, अनेकशेषः, असंज्ञा, कर्मधारयान्मत्वर्थीय इति। तेषु— वीप्सया लघुर्यथा—(गास. ६.३०)
जं जं पुलोएमि दिसं पुरओ लिहिअ व्व दीससे तत्तो।
तुह पडिमापरिपाडिं वहइ व सअलं दिसावलअं॥ १८॥
(यां यां प्रलोकयामि दिशं पुरतो लिखित इव दृश्यते तत्र।