करिकबलनशिष्टैः शाखिशाखाग्रपत्रैररुणसरणयोऽमी सर्वतो भीषयन्ते।
चलितशबरसेनादत्तगोशृङ्गचण्डध्वनिचकितवराहव्याकुला विन्ध्यपादाः॥ १९॥
विकासविक्षेपविस्तरसङ्कोचेषु चेतसो वर्त्तयित्री वृत्तिः। सा षोढा—
कैशिकी, आरभटी, भारती, सात्वती, मध्यमारभटी, मध्यमकैशिकी च। तासु सुकुमारसन्दर्भार्था कैशिकी, यथा—
शशिरुचिषु दलेषु नागवल्ल्या विचकिलदामनि चन्दने च हृद्ये।
कुवलयिनि पुराणसीधुपात्रे तरलदृशामपतन् दृशः प्रिये च॥ २०॥
प्रौढसन्दर्भार्था आरभटी, यथा—(पृ. ३४१ (वेसं. ३.३२) )
'यो यश्शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनाम्' इत्यादि।