कः पुनरयं शेष:? किं कारकेभ्योऽन्यः, उत कारकाणामविवक्षेति?
यदि कारकेभ्योऽन्यः शेषः, स नास्ति, सर्वत्र क्रियाकारकसम्बन्धस्य भावात्। यथा राज्ञः पुरुष इति राजा पुरुषं बिभर्ति इति कर्तृकर्मणोर्भरणक्रियाकृतः सम्बन्धः, पितुः पुत्र इति पितापुत्रयोः जननकृतः सम्बन्धः। वृक्षस्य शाखेति वृक्षे शाखा शाखासु वा वृक्षस्तिष्ठतीति कर्त्रधिकरणयोः स्थितिक्रियाजनितः संबन्धो भवति।
अस्तु तर्हि कारकाणामविवक्षा शेषः।
तन्न, सतः अविवक्षाऽभावात्। न हि सन् घटः अविवक्षातः असन् भवति।
अस्तु तावत्कारकेभ्योऽन्यः शेषः।
ननु चोक्तं कारकाणां सर्वत्र भावान्न ततोऽन्यः कश्चिदस्ति शेष इति?