सतोऽप्यविवक्षा दृश्यते। यथा— अनुदरा कन्या, अलोमिका एडकेति।
असतोऽपि विवक्षा यथा— विन्ध्यो वर्धितकः, समुद्रः कुण्डिकेति।
एवमिह किमेषामस्ति दुष्करमिति सतोऽपि कर्तुरविवक्षायां न तृतीया, अपि (तु) शेषषष्ठ्येव।
यदि तर्हि श्रूयमाणक्रियापदोऽपि कारकेभ्योऽन्यः कारकविवक्षा वा शेषः, किमर्थं 'ज्ञोऽविदर्थस्य करणे' इत्येवमादिः षष्ठीविधानार्थः सूत्रप्रबन्धः पाणिनेः?
न; तस्य अन्यार्थत्वात् समासप्रतिषेधार्थः स वार्त्तिककृता व्याख्यातः 'प्रतिपदविधाना च षष्ठी न समस्यत' (२.२.१०) इति। अन्यैरप्युक्तम्—
१कारकैर्व्यपदिष्टे च श्रूयमाणक्रियापदे।
शेषे प्रोक्ता पुनः षष्ठी२ समासस्य निवृत्तये॥ १६॥
एवमियमुपमाश्लेषार्थान्तरन्यासानामुपकार्योपकारितया प्रधानगुणभावेन संसृष्टिः। युक्तमिदम्। अयुक्तं तु तुल्यकक्ष्यतयेति।
वाक्ये पदार्थानां समकक्ष्यता प्रधानानां वा भवेदप्रधानानां वा?