त्वं नागराज ! बहुशोऽस्य नितम्बभागं भोगेन गाढमभिवेष्टय मन्दराद्रेः।
सोढाविषह्यवृषवाहनयोगलीला— पर्यङ्कबन्धनविधेस्तव कोऽतिभारः॥ २४॥
यथावच्छब्दार्थयोर्निवेशो रचना। सा षोढा —
शब्दरचना, अर्थरचना, पर्यायरचना, पदरचना, वाक्यरचना, क्रमरचना चेति। तासु— शब्दरचना यथा—
तवाभिषेके मदनातुराया हस्ताच्च्युतो हेमघटो युवत्याः।
सोपानमासाद्य करोति शब्दं टंटं टटंटं टटटं टटंटम्॥ २५॥
दिक्कालात्मसमैव यस्य१ विभुता, २यस्तत्र विद्यतते, यत्राऽमुष्य सुधीभवन्ति किरणा३, राशोः स यासामभूत्४।
यस्तत्पित्तमुषःसु५ यश्च ६हविषे, यश्चास्य* जीवातवे७ वोढा यद्गुणमेष८ मन्मथरिपोस्ताः पान्तु वो मूर्त्तयः॥ २६॥१