कणइल्लि च्चिअ जाणइ कुंतपलप्पाइ कीरसंलवइ।
पूसअभासं मुंचसु ण हु रे हं धव्ववाआढी॥ २७॥
(शुक्येव जानाति शुकप्रलपितानि कीरसंलापिनि !
कीरभाषां मुञ्च न खलु रे अहं धृष्टशुकी॥)
लोलल्लाङ्गुलवल्लीवलयितवकुवलानोकहस्कन्धलोलै— र्गोलाङ्गुलैर्नदद्भिः प्रतिरसितजरत्कन्दरामन्दिरेषु।
खण्डेषूद्दण्डपिण्डीतगरतरलनाः प्रापिरे येन वेला— मालम्ब्योत्तालतल्लस्फुटितपुटकिनीबन्धवो गन्धवाहाः॥ २८॥
पतिश्वशुरता ज्येष्ठे पतिदेवरतानुजे।