न तावत् प्रधानानाम्, परस्परमनपेक्षत्वेन सम्बन्धाभावात्।
नाप्यप्रधानानाम्, प्रधानापेक्षत्वेन परस्परानपेक्षायामसम्बन्धादेव। तदुक्तं 'असम्बन्धः समत्वात् स्याद्' (पूमी. ३.१.२२) इति। तत्कथमुच्यते तुल्यकक्ष्यतेति? एवं मन्यते — 'यदोत्प्रेक्षोपमादयोऽलङ्कारा विभावानुभावव्यभिचार्यादिनिर्वर्तनपरतया रसादेरङ्गतां प्रतिपद्यन्ते, तदा भवत्येव तुल्यकक्ष्यते' ति। यथा—
लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः।
असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता॥ १७॥
(काव्याद.२.२२६, मृच्छ.१.३४)
'अत्र लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभ' इति द्वे उत्प्रेक्षे। 'असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता' इत्युपमा च वर्णनीयस्य तमस उद्दीपनविभावभूतस्य समतयैवोत्कर्षापादकत्वेनाङ्गभावमुपगता इति नास्ति लक्षणानुपपत्तिः। ननु च—
१. कारकैः = साधनैः ऐयरः। २. शेषे प्रोक्ता पुनः = प्रोक्ता प्रतिपदं — ऐयर।
इववद्वायथाशब्दा समाननिभसन्निभाः।
तुल्यसङ्काशनीकाशप्रकाशप्रतिरूपकाः॥ १८॥