यदा तावत्कारकाधिकरणेषु क्रियाकारकसम्बन्धः सम्बन्धान्तरं जनयति तदा भवति सम्बन्धः कारकेभ्योऽन्यः। तथा हि — 'राज्ञः पुरुष इत्यत्र कर्तृकर्मणोः भरणक्रियाकृतेन जन्यजनकलक्षणः, वृक्षस्य शाखेत्यत्र स्थितिक्रियाकृतेनावयवा— वयविलक्षण' इति, तत्र षष्ठी भविष्यति।
एवमन्येऽप्यश्रूयमाणक्रियापदाः षष्ठ्यर्थाः समुन्नेयाः। श्रूयमाणक्रियापदाः खल्वपि यथा नटस्य शृणोति, न ग्रन्थिकस्येति सम्बन्धिश्रवणं षष्ठ्यर्थः प्रतीयते। न माषाणामश्नीयादिति प्रतिषेधो गम्यते। 'न ते सुखस्य जानन्ति ये न वत्स्यन्ति नन्दने' इति सुखसंबन्धितया ज्ञानप्रतिषेधोऽवधार्यते', एवमिह (आक्षिपेति पद्ये) दुष्करो मुखश्रिय आक्षेपः।
श्रूयमाणक्रियापदाः षष्ठ्यर्थाः समुन्नेयाः, कोशदण्डसमग्रत्वात् सुकरत्वं वाक्यार्थत्वेनावबोधयन्नरविन्दानां संबन्धितया न शेषलक्षणां षष्ठीं विघ्नयति इति। तदेतस्मिन् दर्शन इदमुक्तम्— (वाप. ३.७.१५६)
सम्बन्धः कारकेभ्योऽन्यः क्रियाकारकपूर्वकः।
श्रुतायामश्रुतायां वा क्रियायां सोऽभिधीयते॥ १४॥
जनयित्वा क्रिया काचित् सम्बन्धं विनिवर्तते।
श्रूयमाणे क्रियाशब्दे सम्बन्धो जायते क्वचित्॥ १५॥
एवं कारकेभ्योऽन्यः शेष इति दर्शने किमेषामस्ति दुष्करमिति न षष्ठ्यनुपपत्तिः। अथवा पुनरस्तु कारकाणामविवक्षा शेषः।
ननु चोक्तं सतः कथमविवक्षा?