भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 81 to 90 of 1530 verses
इदं हि शास्त्रमाहात्म्यदर्शनालसचेतसाम्।

अपभाषणवद् भाति न च सौभाग्यमुज्झति॥ ११॥

तत्किमत्रापभाषणं, का वा सौभाग्यत्यागहेतुविवक्षेति?

उच्यते। किमेषां दुष्करमिति षष्ठ्यनुपपत्तिरपभाषणं, 'कर्तृकर्मणोः कृति (२.३.६५)' इति षष्ठ्याः 'न लोकाव्ययनिष्ठाखलर्थतृनाम्' (२.३.६९)' इति प्रतिषेधात्। केह सौभाग्यत्यागहेतुविवक्षा?

तत्रैके वर्णयन्ति 'अनन्तः खल्वेष शब्दसमाम्‍नायः। तत्र यथा—अन्नम् अजिरं विचक्षणः समाह्वयः(३.३.११८) इत्यादिषु 'अदो जग्धिः' (२.४.३६), 'अजेर्व्य' (२.४.५६), 'चक्षिङः ख्याञ्' (२.४.५४), 'एतदोऽश्' (५.३.५) इत्यादयो विशेषविधयः क्‍वचिद् वार्त्तिकेष्टिज्ञापकादौ प्रतिषेधान्न भवन्ति, तथेह षष्ठीप्रतिषेधोऽपि क्‍वचिद् विशेषवचनान्न भविष्यति। दृश्यते चेह महाकवीनामविभागेन प्रयोगः। तद्यथा—

अपि वागधिपस्य दुर्वचं वचनं तद् विदधीत विस्मयम्॥ १२॥

इति भारवेः (किरात. २.२)

इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः॥ १३॥

इति कालिदासस्य (रघु. १.७२)

विषम उपन्यासः। लक्षणास्मरणे हि शिष्टप्रयोगो लक्षणमनुमापयति। यत्र तु न लक्षणस्मरणाभावमात्रं, अपि तु तद्‌विपरीता स्मृतिः 'न लोकाव्ययनिष्ठा— खलर्थतृनाम्' (२.३.६९) इति, तत्र किं महाकविप्रयोगस्य शक्यम् ? अतः पूर्वोक्तश्लोकार्धयोस्तद्‍व्याख्यातारोऽन्यथा व्याख्यानमकुर्वन्। द्रौपदी यदवोचत्तद् दुर्वचं वचनं वागधिपस्यापि विस्मयं विदधीतेति, दुरापेऽर्थे इक्ष्वाकूणां त्वदायत्ताः सिद्धय इति। एवं तर्हि शेषषष्ठी भविष्यति।

Showing 81 to 90 of 1530 verses