सुकुमारेऽर्थे नातिप्रौढसन्दर्भा भारती, यथा—(वेसं. १.३)
उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीबारमंसं वहन्त्याः।
भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालम्ब्य नीतं वपुरलसलसद्बाहु लक्ष्म्या पुनातु॥ २१॥
प्रौढेऽर्थे नातिसुकुमारसन्दर्भा सात्वती, यथा—
वन्द्यौ द्वावपि तावनार्यचरितप्राप्तप्रतिष्ठोदयौ भीमो भीमपराक्रमः स च मुनिर्भास्वत्कुठारायुधः।
एकेनामृतवद् विदार्य करजैः पीतान्यसृञ्जि द्विषा— मन्येनापि हताहितास्त्रसरसि स्नातं क्रुधः शान्तये॥ २२॥
सुकुमारेऽर्थे प्रौढोक्तिः मध्यमकैशिकी, यथा—
किं द्वारि दैवहतिके ! सहकारकेण संवर्धितेन विषपादप एष पापः।
अस्मिन् मनागपि विकसविकारभाजि भीमा भवन्ति मदनज्वरसन्निपाताः॥ २३॥
प्रौढेऽर्थे सुकुमारोक्तिर्मध्यमारभटी, यथा—(कामी.)