तव प्रतिमापरिपाटी वहतीव सकलं दिशावलयम्॥)
अवीप्सया गुरुर्यथा—(मामा. १.४३)
पश्यामि तामित इतश्च पुरश्च पश्चा— दन्तर्बहिः पुरत एव च वर्तमानाम्।
उद्बुद्धमुग्धकनकाब्जनिभं वहन्ती— मासङ्ग—तिर्यगपवर्तितदृष्टि वक्त्रम्॥ १९॥
एकशेषेण लघु, अनेकशेषेण गुरु। तदुभयमेकश्लोके पर्यायपरिक्षेपाभ्यां यथा—
अद्यौवावां रणमुपगतौ तातमम्बां च दृष्टा स्पृष्टस्ताभ्यां शिरसि विनतोऽहं च दुश्शासनश्च।
तस्मिन्बाले प्रसभमरिणा प्रापिते तामवस्थां पार्श्वं पित्रोरपगतघृणः किं नु वक्ष्यामि गत्वा॥ २०॥
खात्मेन्दुवह्निमरुदर्कमहीपयोभि— रष्टाभिरेव तनुभिर्भवता समस्ते।