प्रतिपक्षप्रतिद्वन्द्विप्रत्यनीकविरोधिनः।
सदृक्सदृशसंवादिसजातीयानुवादिनः॥ १९॥
प्रतिबिम्बप्रतिच्छन्दसरूपसमसप्रभाः ।
सलक्षणसदृक्षाभसपक्षोपमितोपमाः ॥ २०॥
(सलोहितसनाभिसपिण्डसब्रह्मचारिणौ ।
सवर्णतुलितौ शब्दौ प्रख्यप्रतिनिधी अपि॥)
कल्पदेशीयदेश्याद्या ये च न्यूनार्थवाचिनः।
समासश्च बहुव्रीहिः शशाङ्कवदनादिषु॥ २१॥
स्पर्धते जयति द्वेष्टि द्रुह्यति प्रतिगर्जति।