मध्यमेषु च पाञ्चाल्याः त्रितयं त्रितयं त्रिषु॥ २९॥
१. व्योम २. सूर्य ३. चन्द्रः ४. आपः ५. अग्नि ६. यजमानः ७. वायुः ८. पृथिवी। * ज्योशेररावघयोस्तु पाठः— यत्तत्पित्तमुषः स यस्य हविषे द्र.स.क. २.५३. उ. रत्नेश्वरः।
नीलाब्जानां नयनयुगलद्राघिमा दत्तपत्रः कुम्भावैभौ कुचपरिकरः पूर्वपक्षीचकार।
भ्रूविभ्रान्तिर्मदनधनुषो विभ्रमानन्ववादीद् वक्त्रज्योत्स्ना शशधररुचं दूषयामास यस्याः॥ ३०॥
पदार्थानां परस्परमुपश्लेषो घटना। सा षोढा—
प्रक्रान्तघटना, अप्रक्रान्तघटना, अतिक्रान्तघटना, पदघटना, वाक्यघटना, प्रकीर्णघटना चेति। तासु —
प्रक्रान्तघटना यथा—(कुसं. ६.३)
स तथेति प्रतिज्ञाय विसृज्य कथमप्युमाम्।