भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 71 to 80 of 1770 verses
दुन्दुभयो दिवि दध्वनुरुच्‍चैरुच्‍चकराः कपयश्च ववल्गुः।

सिद्धनिकायकराब्जविमुक्तं माल्यमथाङ्गदमूर्ध्‍नि पपात॥ १३॥

एवं गद्येऽपि लघुगुरुमिश्रवर्णविन्यासभूयस्त्वेन द्रुतविलंम्बितमध्यादिगतयो गवेषणीयाः॥

(३. रीतिः —६)

विदर्भादीनां वाक्यरचनावर्त्म रीतिः। सा षोढा—

वैदर्भी, पाञ्चाली, गौडीया, आवन्तिका, लाटीया, मागधी च। तासु — असमस्तपदा वैदर्भी, यथा—(कुसं. ५.४)

मनीषिताः सन्ति गृहेषु देवतास्तपः क्‍व वत्से क्‍व च तावकं वपुः।

पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः॥ १४॥

समस्तपञ्चषपदा पाञ्चाली, यथा—

गात्राभिघातदलिताङ्गदजर्जराणां गण्डस्थलीलुठितकुण्डलताडितनाम्।

Showing 71 to 80 of 1770 verses