भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 111 to 120 of 746 verses
९. एकवाक्यत्वेऽप्यपेक्षिततानवाप्‍तौ तत्र वाक्यान्तरमुपकल्प्यते, सा वाक्यभेदनैयायिकी। यथा— (गास. ३.३१)

तुह असमं सोहग्गं, अमहिलसरिसं च साहसं मज्झ।

जाणइ गोलाऊरो, वासारत्तस्तद्धद्धरत्तो अ॥ २४॥

(तवासमं सौभाग्यममहिलासदृशं च साहसं मम।

जानाति गोदापूरो वर्षारात्रार्धरात्रश्च॥)

अत्र तवासमं सौभाग्यमस्त्रीजनोचितं च मे साहसं गोदावरीपूरो जानातीत्येतावदेकं वाक्यम्। नैकः साक्षी प्रमाणमित्यपेक्षायां वर्षारात्रार्धरात्रश्चेति द्वितीयम्। अन्यथा ह्येकवाक्यतायां 'यथासङ्ख्यमनुदेशः समानाम्' (१.३.१०) इति गोदावरीपूरस्त्वत्सौभाग्यं वर्षारात्रार्धरात्रस्तु मत्साहसं जानातीत्ययमर्थः सम्पद्यते। यदि चायमपि न यथासङ्खयस्य विषयः, कोऽन्यो भविष्यति? तत्र को दोष इति चेद् विवक्षितार्थासिद्धिः। यथासङ्ख्यपक्षे हि येषु त्वं पल्लवितलताप्रतानापवारितेषु गोदावरीतटगुहागृहेषु कामपरवशाभिर्वराङ्गना— भिरभिसार्यमाणो विहरसि, पूर एव तेषु यदि प्रवेष्टुमीष्टे, यानि चाहं प्रसुप्‍ताशेषजनपदे प्रवर्षदम्भोघरान्धकारनिस्सञ्चारे प्रावृण्निशीथे परिभ्रमन्ती महासाहसानि (कृत्वा अभिसारितवत्यस्मि तानि) वर्षारात्रार्धरात्र एव यदि द्रष्टुं शक्नोति, न पुनरन्यस्यैतत् सामर्थ्यमित्ययमर्थः सङ्गच्छते। न चायमस्या विवक्षितः, अपि तु एवं नाम त्वं सुभगोऽसिएवं नाम चाहं साहसिनी यार्धरात्रे वर्षासु पूरपूर्णां गोदावरीमुल्लङ्घ्यागणित— प्राणसंशया त्वामभिसारितवत्यस्मि, तस्मात् कृतज्ञतामनुरुध्यमानेन सौभाग्यातिशययोगाद् बहुवल्लभेनापि त्वयानुरक्तायां मय्यनुक्रोशो न मोक्तव्य इति॥

(३. नैषेधिकी)

१. अथ यत्र साधर्म्यादिभिरर्थान्तरेऽनुवृत्तः पदार्थधर्मो वचनेन निवर्त्यये, सा वचननैषैधीकी; सा तु प्रतीयमाननिवृत्तिनिमित्ता च। तयोराद्या यथा—

मूले कण्टकसन्ततिरुपरि च विकचानि रक्‍तकुसुमानि।

एतावतैव शाल्मलिरनुहरति न पङ्कजवनस्य॥ २५॥

Showing 111 to 120 of 746 verses