कान्तामुखस्यावशगस्तस्मै नृपशवे नमः॥ २८॥
स एव असमासो यथा—(काव्याद. १.६)
गौर्गौः कामदुधा सम्यक् प्रयुक्ता स्मर्यते बुधैः।
दुष्प्रयुक्ता पुनर्गोत्वं प्रयोक्तुः सैव शंसति॥ २९॥
क्रियानिमित्तः समासो यथा—
कत्तो संपडइ महं पि पिअसहि पिअसंगमो णिसीहे वि।
जा जअइ गहिअ—कर—णिअरखिक्खिरि चंदचंडालो॥ ३०॥
(कुतः सम्पतति ममापि प्रियसखि प्रियसङ्गमो निशीथेऽपि।
यावज्जयति गृहीतकरनिकरखिक्खिरी चन्द्रचाण्डालः॥)