वस्तुरूपो द्विधा— सत्त्वभूतोऽर्थः, असत्त्वभूतोऽर्थश्च। तयो—
सत्त्वभूतोऽर्थो यथा औपगवः, छान्दसः, लाक्षिकं, यौष्माक इति।
असत्त्वभूतोऽर्थो यथा आस्तिकः, उपत्यका, प्रकटं, तत्रत्यम् इति।
अवस्तुरूपोऽपि पूर्ववदेव द्विधा। तयोः—
सत्त्वभूतोऽर्थो यथा अग्निवत्, पञ्चवत्, पञ्चकृत्वः, सर्वदा, बहुश इति।
असत्त्वभूतोऽर्थो यथा नतरां, प्राहतरां, पचतितरां, पचतिरूपमिति।
क्रियारूपोऽपि द्विधा— संक्षिप्तो, विक्षिप्तश्च। तयोः—
संक्षिप्तो यथा आत्मनः पुत्रमिच्छति पुत्रीयति, श्येन इवाचरति श्येनायते, अभृशो भृशो भवति भृशायते, सेनया अभियाति अभिषेणयतीति।
विक्षिप्तो यथा कंसवधमाचष्टे कंसं घातयति, आरात्रि विवासमाचष्टे रात्रिं विवासयति, पुष्यचन्द्रयोगं जानाति पुष्येण चन्द्रं योजयति, उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्योद्गमं प्राप्नोति माहिष्मत्यां सूर्यमुद्गमयतीति।