परस्परतो हि व्यावर्तमानशरीराः करणादयस्साधनभेदाः कथमेकद्रव्यात्मता— मुपयन्तो न सङ्कीर्येरन् ? असङ्करे वा कथममीषामेकद्रव्यात्मता युज्यते ? तस्मादेकद्रव्याधि करणा करणादिप्रतीतिरेवास्या द्रव्याद् भेदमापादयति। किञ्च
विभक्त्यर्थेऽव्ययीभाववचनादवसीयताम्।
अन्यो द्रव्याद् विभक्त्यर्थस्सोऽव्ययेनाभिधीयते॥ ११॥
तथा हि— विभक्त्यर्थे वर्तमानमव्ययमुत्तरपदेन समस्यते। यदि च विभक्त्यर्थ इत्यनेन शक्त्याश्रयस्सत्त्वभूतं द्रव्यमुच्यते, तदसत्त्ववाचिनाव्ययेन नाभिधीयेत। तस्य चार्थस्य प्रातिपदिकेनैवोक्तत्वात् तदभिधाय्यव्ययमप्रयोहगार्हमेव स्यात्। एवं च अधिस्त्रि, अधिकुमारीति न सिध्येत्। यत्र हि पदद्वयं सङ्गतार्थं प्रयुज्यते स विषयस्समाससंज्ञायाः। तस्मादनभिहितामधिकरणशक्तिमव्ययमभिदधत्तुरपदेन समासमनुभवति। तेन चावधार्यते द्रव्यातिरिक्तां शक्तिममभिधत्ते विभक्तिरिति। भवतोऽपि युक्तमेवोच्यते। स्वरूपादुद्भवत् कार्यं ततोऽन्यां शक्तिमशक्तं कल्पयितुमिति। यतः शक्तिवादिनोऽपि गुणादिशब्दवाच्यात् कारकत्वादेर्द्रव्यस्य स्वरूपान्न शक्तिमन्यां मन्यन्ते। किन्तु कार्योपजनायार्थव्यक्तयः क्षमा इति न क्षमन्ते; सर्वस्मादपि कार्योदयप्रसङ्गात्। स्वकारणपरम्परायातनियतस्वभावतां तु न विद्मः। कारणगुणोत्थः पदार्थातिशय इति चेत् सैव शक्तिः। तस्यास्तु नित्यत्वानित्यत्वविकल्पो नोपयुक्तः; यावद्द्रव्यभावित्वे न द्रव्यवदेव नित्यानित्यत्वात् सर्वदा कार्योत्पादः, क्रियाकाल एव शक्तेरुन्मेषात्। अदृष्टप्रतिनियतसहकार्यादयस्तु शक्त्युन्मेषहेतवो नास्माभिरपि निराक्रियन्ते। येन तूपादाननियमे अन्वयव्यतिरेकौ वृद्धव्यवहारादृतेऽपि कार्यदर्शनावसेयशक्तिमूलावेव; वृद्धैरप्यन्वयव्यतिरेकाभ्यां तथैव कारणत्वावगमात्। नाशः शक्तेः प्रतिबन्धो वा मन्त्रादिनेत्यादिविकल्पस्तु स्वरूपस्य शक्तित्वसिद्धौ निषिद्ध एव भवति। व्यापारस्तु धातुवाच्य एवातीन्द्रियो न वास्तवः। तेन कार्यदर्शनान्यथानुपपत्तिकल्पिता शक्तिरतीन्द्रियोपपन्नतरैवेति।
वृत्त्यर्थास्रिधा — १. अपदार्थः, २. एकपदार्थः, ३. अनेकपदार्थश्च।
तत्राऽपदार्थस्त्रिधा— धातुप्रत्ययार्थीयः, प्रत्ययप्रत्ययार्थीयः, प्रातिपदिकप्रत्ययार्थीयश्च। तेषु —
धातुप्रत्ययार्थीयो द्विधा— क्रियारूपः, कारकरूपश्च। तयोः—