द्विधा हि द्रव्यं सत्त्वभूतमसत्त्वभूतं च। तयोश्शक्तिसङ्ख्याश्रयस्सत्त्वभूतं वृक्षाद्यर्थः। तदनांश्रयोऽसत्त्वभूतमव्ययाद्यर्थः। तदुभयमपि निरुपाध्येव प्रातिपदि— केनोच्यते। तदाश्रितास्तु सशक्तिसङ्ख्यासंबन्धोपाधयो विभक्त्येति। ननु च
स्वरूपादुद्भवत् कार्यं सहकार्युपबृंहितम्।
नैव कल्पयितुं शक्तं शक्तिमन्यामतीन्द्रियाम्॥ ९॥
शक्तिर्हि कल्प्यमाना पदार्थस्वरूपवन्नित्या वा स्यात् कार्या वा ? तत्र नित्यत्वे नित्यमेव कार्योत्पादप्रसङ्गः। सहकार्यपेक्षा तु स्वरूपस्यैवास्तु किं शक्त्या ? कार्यत्वे तु पदार्थस्वरूपमात्रकार्यतायां सदा शक्तेरुत्पादात् सदैव कार्योत्पादः। सामग्रीकार्यं तु कार्यमेवास्तु, किमन्तराले शक्त्या ? अशक्तात् कारकात् कार्यानिष्पत्तिरिति चेच्छक्तिरपि कार्यं, तदुत्पत्तौ शक्त्यन्तरकल्पनादनवस्था; अन्यथाऽभ्युपगमव्याघातः।
आह, दृष्टसिद्धये ह्यदृष्टं कल्प्यते। शक्त्यन्तरकल्पनायाः शक्तिश्रेणनिर्माण एव क्षीणत्वात् कारकाणां मा भूत् कार्यव्याघात इत्येकैव शक्तिः कल्प्यते, तत्कुतोऽनवस्था ?
नैवम्, अन्यथापि तदुपपत्तेः। यदि ह्यर्थव्यक्तिः क्रियासु प्रतिहन्येत तदा तदतिरिक्तशक्तिकल्पना युक्तेति। अप्रतिहताश्च सहकारिलाभादपि कार्योपजनाश्चार्थ— व्यक्तयः। तत्किं वृथा शक्तिकल्पनयेति।
ननु शक्तिमन्तरेण कारकं कारकमेव न भवेत्, भावतत्त्वस्य क्रियासु प्रतिघातात्। रूपमेव हि दृश्यते न रसादि, दर्शनायतनं पश्यति न रसनादि, रस एव रस्यते न रूपादि, रसनमेव रसयति न चक्षुरादि, आप एव पिपासामपनयन्ति न त्वग्नि, अग्निरेव शीतं शमयति न त्वाप इति। अप्रतिघाते हि वस्तुस्वरूपाविशेषात् सर्वस्मात्सर्वकार्योदयप्रसङ्गः। ततश्चक्षुरिव रसनमपि पश्येत्, रूपमिव रसोऽपि दृश्येत, रसनमिव चक्षुरपि रसयेत्, रस इव रूपमपि रस्येत, आप इवाग्निरपि पिपासामपनयेत्, अग्निरिवापोऽपि शीतं शमयेयुः। यथा च तैलार्थिना तिला उपादीयन्ते तथा सिकता अप्युपादीयेरन्। यथा वा पादपं छेत्तुमनसा परशुरुद्यम्यते तथा पादुकाद्यप्युद्यम्येत। अपि च विषदहनयोर्मारणे दाहे च शक्तावनिष्यमाणायां मन्त्रप्रतिबद्धायां यत्तयोस्स्वकार्यौदासीन्यं तत्र का युक्तिः ?
चक्षुः श्रोत्रयोर्वा दर्शने श्रवणे च रोगादिना यत् स्वकार्याकरणं तत्र कोपपत्तिः ? न हि मन्त्रादिना रोगादिना वा तत्स्वरूपाणि सहकारिणो वा प्रतिबध्यन्ते, तद्रूपेणैव तेषामुपलम्भात्। शक्तयस्तु प्रतिबध्यन्त इति सत्स्वपि स्वरूपसहकारिषु कार्यानुत्पादो युक्तः। तस्माद् यथा सुखादिकार्यानुमितमदृष्टं, सातिशयबुद्धिनिबन्धन— स्मृतिप्रत्ययहेतुस्संकारः, क्रियाविशेषजनितः क्रियान्तरप्रसवोपयोगी वेग इत्याद्य— परमतीन्द्रियमेव कल्प्यते भवद्भिः, तथा शक्तिरपि कार्यातिशयकारणमतीन्द्रिया कल्प्यतामिति।
तदनुपपन्नम्; शक्तिमन्तरेणापि क्रियाप्रतिघातादीनामुपपत्तेः। स्वकारणपरम्परा— यातनियतस्वभावतयैव भिन्नस्वभावा रसादयो रूपादिभ्यस्ते कथं रूपादिसाध्या— मर्थक्रियामतथाभूतास्साधयेयुः ? नियोगतश्चेतदङ्गीकर्त्तव्यम्; शक्तिकल्पनायामपि तुल्यानुयोगित्वात्। कथमेताश्शक्तयो नियताधारा न पुनरवयवेन शक्तीर्व्याप्नुवन्तीति। पदार्थस्वरूपातिशयादिति चेत्कार्यभेदोऽपि तत एव सेत्स्यति। अपि चाश्रयस्य भेदे कथं शक्तिभेदः ? यतो वा शक्तयः प्राप्तरूपभेदास्तत एवाश्रयरूपभेदेन कार्यभेदसिद्धेः किं शक्तिभेदकल्पनेन ? यास्तर्हि तुल्यरूपा व्यक्तयः कार्यमतुल्यं साधयन्ति तासु कथम् ? यथा गल्वर्ताश्चन्द्रकान्तिभिः स्यन्दन्ते न सूर्यग्रावणः, करका अर्कांशुभिर्विलीयन्ते, न मुक्तामणयः, आन्तरं तेजः पश्यति न बाह्यम्, प्राणो वायुः प्राणिति न व्यानः, श्रोत्राकाशश्शृणोति न वक्त्राकाशः, विद्वान् क्रियास्वधिक्रियते नाविद्वानिति तुल्यजातीयत्वेऽपि तेषामदृष्टप्रतिनियमो द्रव्यान्तरसंपर्कभेदश्च कार्यभेदं व्यवस्थापयति। यास्तर्ह्यभिन्ना भिन्नमर्थव्यक्तयः कार्यं साधयन्ति तासु कथम् ? यथा— तदेव तेजो दहति प्रकाशयति शीतं चापनुदति, ता एवापः प्लावयन्ति, क्लमं चापनयन्ति, तादृशः स तेजसः पयसो वा रूपातिशयः कर्मण इव संयोगाविभागवेगानुकूलता, धर्मस्येव सुखज्ञानापवर्गकारणत्वमिति। उपादाननियमे तु न वयमन्यं कंचिदभिनवं भावानां कार्यकारणभावमुत्पादयामः, किंतु यथा प्राप्तमनुसरन्तो व्यवहारामः (न्यायमं.)। तत्र तैलोत्पादपादपच्छेदादावन्वयव्यतिरेकाभ्यां वृद्धव्यवहाराद्वा तिलपरश्वधादेरेव कारणत्वमवगच्छाम इति तदेव तदर्थिन उपादद्महे, न सिकतापादुकादीति। न च तिलादेः परश्वाधादेर्वा स्वरूपे सत्यपि सदा कार्योदयः। स्वरूपवत् सहकारिसन्निधेरप्यपेक्षणीयस्य सर्वदानुपपत्तेः। सहकारिवर्गे च धर्मादिकमपि निपतति; तदपेक्षे च कार्योत्पादे कथं सर्वस्मात् सर्वसम्भवः ? धर्मादीनां तु जगद्वैचित्र्यादिकार्यबलेन कल्पनमपरिहार्यम्। यद्यपि विषदहनयोः सन्निधाने सत्यपि मन्त्रोपयोगात्तत्कार्याजननं तदपि न शक्तिप्रतिबन्धनिबन्धनम्। अपि तु सामग्र्यन्तरानुप्रेवेशहेतुकम्।