भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 71 to 80 of 595 verses
इह तर्हि कथं चित्रगवीं वध्‍नतीति चित्रो गुणो विधीयते, यतोऽत्रापि गोरस्वतन्त्रीकारस्तस्याश्‍च चित्राया इति भिद्यते प्रवृत्तिः; गुणद्रव्ययोगस्य श्रुत्यैवाभि— धीयमानत्वात्, तद्‍‌विषयत्वाच्‍च क्रियाया नात्रापराध इति चेद्, ग्रहमित्यपि श्रुतिरेव सङ्ख्यायास्तदधिकरणस्य च द्रव्यस्य क्रियाङ्गभावमभिधत्ते। तथा शोणं योजयेदित्ये— कशब्दोपादानयोर्जातिगुणयोरङ्गीकरणम्। एवं तर्हि स्वार्थायां प्रवृत्तौ सङ्ख्याभेदस्य विधातुमशक्यत्वादविवक्षिता सङ्ख्या, यथा ग्रहं संमार्ष्‍टीति। अत्र ग्रहार्थत्वात् संमार्गस्य प्रधानं ग्रहाः, तदङ्गं संमार्गः (पम. १.२.६४)। पशुना यजेत, शोणं योजयेत्, चित्रगवीं बध्‌नातीत्यादौ तु यागादिकर्मार्थत्वात् पश्वादीनामप्रधानानां ससङ्ख्यानां सगुणानां च विशिष्‍टानामेव विधानमिति विवक्ष्यते सङ्ख्या गुणश्‍चेति। आचार्यप्रवृत्तिरप्येतदेव ज्ञापयति 'प्रधाने संख्या न विवक्ष्यते, गुणे तु विवक्ष्यत' (पम. १.२.६४) इति। तथा हि— 'सरूपाणामेकशेष' इति कर्मसाधने शेषशब्दे शेषशब्दाभिधेयस्य द्रव्यस्य साधुत्वाद् व्याख्यानेनाभिधीयमानसंस्कारत्वात् प्राधान्यम्। अतः स्वार्थे प्रवर्तमानस्याविवक्षित— सङ्ख्यात्वादेकशब्दोपादानं कृतमेकश्शिष्यत इति। तदेत लिङ्गं प्रधानस्याविवक्षिता संख्येति। एवं सुबन्तं सुबन्तेन समस्यत इति संख्याया अङ्गीकरणाद् बहूनां समासो न भवति, यथा महत्कष्‍टं श्रित (मभा. २.१.१) इति। अत्र ह्येवंप्रकारावयव— सन्निवेशावच्छिन्नस्समुदायस्साधुरित्यन्वाख्यायते। अतोऽवयवपरामर्शोपायेन समुदायस्य संस्काराधानप्रक्रमे प्रधानं समुदायस्तमुद्दिश्य प्रवर्तमाना अवयवा उपात्तसङ्ख्याविशेषाङ्गी— करणेन प्रवर्तन्ते। यत्र तु यत्‍नान्तरमारभते तत्र बहूनामपि भवति, यथा 'कालाः परिमाणिना' (२.२.५) इति; बहुवचनाद् द्व‍यह्नजातः (पम. २.२.५) इति। यथा च बहुव्रीहिद्वन्द्वविधावनेकग्रहणान्मत्तबहुमातङ्गं वनं, धवखदिरपलाशा इति। क्‍वचित् पुनर्गुणेऽपि सङ्ख्या न विवक्ष्यते, यत्र तदविवक्षया प्रधानान्तरस्य सिद्धिर्भवित, यथा 'कर्तुरीप्सिततमं कर्म' (१.४.४९) इति। अत्र हीप्सिततमस्य कर्मसंज्ञायां विधीयमानायाम् ईप्सया अवच्छेदायोपादीयमानः कर्ता यद्याश्रितैकत्वसंख्यः प्रतीयेत, अनेकस्येप्सितं वस्तु कर्मसंज्ञासंबन्धादपेयात्। अतः प्रधानसंस्कारोपरोधतिरस्काराय कर्तानपेक्षितसंख्या— विशेषस्समाश्रीयते।

ननु च प्रयोजनमिदं प्रधानान्तरसिद्धिः। तस्मादविवक्षायामुपपत्तिर्वक्तव्या।

इयमुच्यते सामान्यनिबन्धनत्वादीप्सिततमशब्दस्य संबन्धिनामविशेषेण प्रसक्तौ साधनान्तरोच्छित्तये कर्तृग्रहणं क्रियते। तदुपात्तविपरीतप्रतिषेधमात्रोपक्षयमसमर्थं संख्याभेदमङ्गीकर्तुमिति।

शक्तिः पुनरप्रधाने प्रधाने वा संख्यावति विभक्त्या विधीयमाना विवक्षामेवानुरूध्यते। एवं च यथा पश्वादीनां ससंख्यानां तथा ग्रहादीनामसंख्यानामेव क्रियासु साधनभावो भवति। कथं पुनः पश्वादिगता संख्या साधनत्वेनावगम्यते, यावता प्रातिपदिकार्थस्य साक्षात् पारम्पर्येण वा संबन्धिसाधनत्वं संख्या च विभक्त्या विधीयते। न तु संख्यासाधनत्वयोः परस्परेण संबन्धोऽस्ति। एवं तर्हि प्रथमतरं व्यक्तिस्संख्यया संबध्यते। संख्या संसर्गप्राप्‍तातिशया तु साधनभावेन। सोऽयं साधनभावो विशिष्‍टे निपाताद् विशेषणमपि साधनमित्यावेदयति। यथा सायुधेन जितमिति।

कुतः पुनरयं संख्यासाधनत्वयोरेकशब्दोपनिबन्धनयोरस१निबन्धकारिकालभेदेन संबन्धः ?

न ह्येतदस्ति। संख्यया संसर्गमनवाप्य न शक्‍नोति साधनभावमासादयितुमिति। एवं तर्हि संख्यासाधनभावाभ्यां व्यक्तिस्संबध्यते। ताभ्यामुत्पादितात्मातिशयामाख्यात— विभक्तिस्तां क्रियासु विनियुङ्क्ते। सा विशिष्‍टा क्रियासंबन्धमनुभवतीति विशेषणमपि क्रियासंबद्धं प्रतीयते।

१. 'असनिबन्ध; सह निबन्धः सनिबन्धः; स न भवतीति असनिबन्धः' इति राघवाचार्यः।

ननु च कर्मकरणादिकारकं विभक्‍त्यर्थः, तच्‍च क्रियासिद्धावुपात्तव्यापार— त्वाच्छक्तिमद्‌द्रव्यमेव तस्मिंश्‍च प्रातिपदिकेनैवोक्ते किं विभक्‍त्योच्यते ?

(शक्तितत्त्वम्)

शक्तिरिति ब्रुमः।

Showing 71 to 80 of 595 verses