अनेकपदार्थस्त्रिधा—एकपदार्थाश्रयः, उभयपदार्थाश्रयः, अन्यपदार्थाश्रयश्च। तत्र एकपदार्थाश्रयो द्विधा— पूर्वपदार्थाश्रयः, उत्तरपदार्थाश्रयश्च। तयोः—
पूर्वपदार्थाश्रयो यथा उपकुम्भं, पुरुषव्याघ्रः, गोमतल्लिका, पूर्वकायः, राजदन्तः, प्राप्तजीविक इति।
उत्तरपदार्थाश्रयो यथा राजपुरुषः, यूपदारुः, कष्टश्रितः, श्वलेह्यः (काशिका २.१.३३) द्वयह्नजातः अनेक इति।
उभयपदार्थाश्रयो द्विधा— एकाधिकरणो भिन्नाधिकरणश्च। तयोः
एकाधिकरणो यथा नीलोत्पलम्, अग्निस्तोकः (काशिका २.१.६५), पुरुषोत्तमः, सर्वश्वेतः (काशिका २.२.९), सप्तर्षयः, खञ्जकुब्ज इति।
भिन्नाधिकरणो यथा धवखदिरौ, अश्वबडबौ, दधिपयसी, धवखदिरपलाशाः, काकोलूकं, गवाश्वमिति।
अन्यपदार्थाश्रयो द्विधा— सतद्गुणोऽतद्गुणश्च। तयोः
सतद्गुणो यथा उन्मत्तगङ्गं, शस्त्रीश्यामा, सहस्त्राक्षः, शूलपाणिः, द्वित्राः, अर्धतृतीया इति।
अतद्गुणो यथा ऊढरथः, चित्रगुः, दक्षिणपूर्वा, उष्ट्रमुखः गुडप्रियः, प्रियगुड इति (मभा. २.२.३५)।
(वृत्तिः— जहत्स्वार्था अजहत्स्वार्था वा)