ननु च यथा तक्षा कोशसमाहरणसन्निधापनादौ राजकर्मणि व्याप्रियमाणः स्वव्यापारापरित्यागेन राजकर्मणोऽनुष्ठातुमशक्यत्वात् स्वं दारुच्छेदचतुरश्रीकरणादि— व्यापारं जहाति, तथा यद्युपसर्जनमप्यर्थान्तरप्रत्यायनादौ परार्थे व्याप्रियमाणं स्वार्थापरित्यागेन परार्थाभिधानं कर्तुमशक्यमिति पूर्वोपात्तमर्थं विशेषणत्वादि जह्यात्। तदुक्तोदाहरणयोः पुरुषमात्रस्यापत्यमात्रस्य चानयनं प्राप्नोति।
नैष दोषः। यद्यपि स्वार्थोपसर्गेण अर्थान्तरमुपसर्जनपदान्यभिनिविशन्ते, तथाप्याधाय प्राधाने रूपभेदमुपगृहीतार्थातिशयनिबन्धनमुत्तरकालं स्वार्थमुज्झति। अतस्तदाहितरूपभेदानुगतः पुरुषार्थो निवृत्तेऽप्युपसर्जनपदार्थे विशिष्ट एव प्रतीयते। न ह्यतिशयाधायिनिमित्तसन्निधानकालमात्रानुवर्तिनस्तदाहितविशेषाः, अपि तु निमित्त— व्यवायेऽप्यनुवर्तन्ते। तत्र यथा शरदर्करश्मिसंतापोद्भूतेनान्तश्शरीरतेजसा ज्वरस्स— मुदीर्यमाणो नातपस्पर्शपरिवर्जनमात्रेण प्रतिक्रियते। यथा वा प्रदीप्ततेजस्संयोगप्रति— लब्धजन्मानो रूपरसगन्धस्पर्शविशेषाः दूरोत्सारितेऽपि तेजसि यावदाधारमवतिष्ठन्ते, तथोपसर्जनपदार्थोपहितः प्रधानरूपातिशयः तदर्थास्तमयेऽपि प्रधानस्य विशेषा— वच्छेदनिमित्तं भवति। यदि वोपसर्जनश्रुतिमर्थविशेषाभिधानसामर्थ्यवतीमवधृतवतः तदवसायोपहितसंस्कारवृत्तिलाभप्रापितजन्मा तदर्थपरिच्छेदः परित्यक्तार्थायामपि श्रुतौ रूपसामान्यादपहृतबुद्धेरनवगतार्थपरित्यागस्य प्रवर्तते। ततस्तदुपहितविशेषं प्रधानमवैति।
ननु च यदि तस्या एव श्रुतेः प्रयोगदर्शनाभ्याससामर्थ्यात् तमेवार्थं प्रतिपद्यते, कः स्वार्थपरित्यागः?
न हि श्रुतौ तस्यां भस्त्रायामिवोपकरणविशेषाः कृतसन्निवेशाः पदार्थाः।
किं तर्हि? ते शब्दरूपदर्शनानुमेयाः।
तदिहापि तथैवेति किमवहीयते स्वार्थस्य?
नैवम्; निवृत्तेऽपि स्वार्थेऽन्वयाद् अर्थाः प्रतीयन्ते, तद्यथा घृतघटस्तैलघट इति। निषिक्तेऽपि घृते तैले वा अन्वयाद् घृतं तैलं वा घटविशेषणं भवति अयं घृतघटोऽयं तैलघट इति (मभा. २.१.१)।
विषम उपन्यासः; भवति तत्र या च यावती चार्थमात्रा। अङ्गं हि भवानग्नौ निष्टप्य तृणकूर्चेन प्रक्षालयतु, न गम्यते स विशेषः; यथा तर्हि मल्लिकापुटश्चम्पकपुट इति; निष्कीर्णास्वपि सुमनस्सु तत्सम्पर्कोपहितगन्धविशेषाद्यनुवृत्तेः प्रतीयते व्यपदेशः अयं मल्लिकापुटोऽयं चम्पकपुट इति, तथेहाप्यन्वयादुपसर्जनार्थः परित्यक्तोऽपि विशेषणं भविष्यति।
अथवा जहदप्यसौ स्वार्थं राजशब्दो नात्यन्ताय जहाति। कश्चिदेव भागः स्वार्थस्यापि हीयते।
कथम्? विरोधादेष स्वार्थमवजहाति। ततो यावतास्य प्रधानार्थोपयोग— विरोधस्तावन्तमेवार्थं जह्यात्। तदाह — यः परार्थविरोधी स्वार्थः तं जहाति। न हि प्रधानार्थोपयोगिनः स्वार्थस्य अत्यागे निदर्शनमस्ति? अस्ति, राजकर्मणि प्रवर्तमानः तक्षा राजा तक्षकर्मैव जहाति, न हिक्कितहसितकण्डूयितानि। न चायमर्थः परार्थविरोधि— विशेषणत्वं नाम तस्मान्न हास्यति।