भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 171 to 180 of 595 verses
ननु चोक्तमुभयोर्विद्यमानस्वार्थयोः द्वयोर्द्विवचनमिति द्विवचनं प्राप्‍नोति।

कस्याः पुनर्द्विवचनं प्राप्‍नोति ?

प्रथमायाः। न प्रथमासमर्थो राजा। षष्ठ्यास्तर्हि प्राप्‍नोति। न षष्ठीसमर्थः पुरुषः। प्रथमाया एव तर्हि प्राप्‍नोति।

ननु चोक्तं न प्रथमासमर्थो राजाभिहितः, सोऽर्थोऽन्तर्भूतः प्रातिपदि— कार्थस्संपन्नः। तत्र प्रातिपदिकार्थे प्रथमेति प्रथमाया एव द्विवचनं प्राप्‍नोति। तत्र यथा धवखदिराविति पदार्थान्तरोपचये सङ्ख्याभेदोपजनकानेकवचनं प्रवर्तते तद्वदिहापि राजपुरुषः, इति पुरुषशब्दाद् द्विवचनं प्राप्‍नोति।

नैवम्; धवखदिरावित्यवयवार्थ समवेतस्सङ्ख्याविशेषः, ततोऽवयवात् परस्या विभक्तेः कारणम्। इह तु एक एव पुरुषार्थः तदेकवचनमेव पुरुषशब्दे न्याय्यः। न हि राजशब्देनासम्बध्यमाना विभक्तिस्तदर्थसमवेतां सङ्ख्यामभिधेयत्वेन अपेक्षते। द्वन्द्वपदानां तु प्रत्यवयवमनेकार्थाभिधानसामर्थ्यादनेकवचनं न विरुध्यते। अनुत्तर— पदेष्वपि तर्हि तत् प्राप्‍नोति?

प्राप्‍नोतु। 'सुपो धातुप्रातिपदिकयोः' (२.४.७१) इति लोपो भविष्यति।

अथायमभिप्रायः — समुदायात् परा विभक्तिः, अतस्समुदायार्थसमवायिनीं सङ्ख्यामभिधत्ते। समुदायस्स चावयवात्मकत्वादवयवभेदनिबन्धनस्सङ्ख्याभेदः निमित्तमनेकवचनस्येति। तदेतत् क्‍व युज्यते?

यत्र पदसमुदायेनार्थसमुदायः प्रत्याय्यते, यथा द्वन्द्वपदे। यत्र तु विशेषणविशेष्यभावावच्छिन्नमर्थान्तरमेवाभिधेयमवयवैः समुदायेनोपादीयते, यथा बहुव्रीहिपदे 'लोहितवसनः', 'चित्रवेष्टन' इति, तत्रावयवार्थाहितभेदस्य पदार्थस्य समुदायेनाभिधीयमानत्वात् ततः परा विभक्तिस्समुदायार्थनिवेशिनीं सङ्ख्यामुपादत्ते। तदाह 'सङ्घातस्यैकार्थ्यान्नावयवसङ्ख्यातस्सुबुत्पत्तिः' (२.१.२. वा. ३)। अत्र हि समुदायाद् राजपुरुष इत्येतस्माद् विभक्‍त्योत्पत्तव्यम्। तेन समुदायेनैवैकार्थ— पिण्डोऽवयवार्थशक्‍त्यनुगृहीतः पृथगव्यपदेश्‍योऽवयवशक्तिरभिधीयते। तस्मिंश्‍च सङ्घातार्थे स्वामिविशेषपरिच्छिन्ने निवृत्तस्वाम्यन्तरसंबन्धे एकत्वं समवेतं, तेन विद्यमानायामप्यवयवसङ्ख्यायां तदाश्रया सुबुत्पत्तिर्न भविष्यति। तदेवमजहत्स्वार्थायां वृत्तौ तदुपसर्जनपदं स्वार्थातिशयावच्छिन्नं प्रधानार्थमभिदधाति। ततो विशेषणविशेष्यभूतार्थद्वयाभिधानमुपसर्जनस्य वृत्तौ भवति। यत्तु प्रधानार्थसम्भवविशेषणं पाटलिपुत्रकादि, तदस्य निवर्तते, अतो वृत्तिविषये राजार्थः तैर्विशेषणैर्नावच्छिद्यते। यदा तु वाक्‍यावस्थायामुपसर्जनं पदार्थः प्रधानसंस्पर्शविभक्तः केवल एव भवति, तदा युक्तमेव यद्‍‌विशेषणभावमनुभवति, यथा राज्ञः पाटलिपुत्रकस्य पुरुष इति; यदि वा—

उपायमात्रान्नानात्वं समूहस्त्वेक एव सः।

विकल्पाभ्युच्चयाभ्यां तु भेदसंसर्गकल्पना॥ १२॥

Showing 171 to 180 of 595 verses