अनुरागवती सन्ध्या दिवसस्तत्पुरस्सरः।
अहो दैवगतिश्चित्रा तथापि न समागमः॥ ४१॥
उपाध्वं तत्पान्थाः पुनरपि सरो मार्गतिलकं यदासाद्य स्वेच्छं विलसथ विलीनक्लमभराः।
इतस्तु क्षाराब्धेर्जरठमकरक्षुण्णपयसो निवृत्तिः कल्याणी न पुनरवतारः कथमपि॥ ४२॥
अनुभयोक्तौ यथा— (उराच. १.२८)
अथेदं रक्षोभिः कनकहरिणच्छद्मविधिना तथावृत्तं पापैर्व्यथयति यथा क्षालितमपि।
जनस्थाने शून्ये विकलकरणैरार्यचरितै— रपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम्॥ ४३॥