(५) यत्र विशेषणभूतं नाम सर्वनाम वा विशिष्टगुणधर्मादिकं प्रवृत्तिनिमित्तमुपादत्ते स विशेषणविषयः।
स नाम्नो विशिष्टगुणनिमित्तत्वे यथा—
भवतु रुषि कठोरा किन्तु रम्या मृगाक्षी निरुपधिमधुराणां स्वादवोऽमी विकाराः।
श्रयति कठिनभावः शुक्तिपात्रेष्वपो यः कुलजनबहुमानस्तासु मुक्ताफलान्तः॥ ४४॥
सांस्कारिक्यादिजनिका संज्ञापि तस्याः यथा—
स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्वलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः।
कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वं सहे वैदेही तु कथं भविष्यति हहा हा देवि ! धीरा भव॥ ४५॥
सर्वनाम्नो विशिष्टगुणसम्पत्तिनिमित्तत्वे यथा—(उराच. ४.१२)
स राजा तत् सौख्यं स च परिजनस्ते च दिवसाः स्मृतावाविर्भूतं त्वयि सुहृदि दृष्टेऽद्य सकलम्।
विपाके घोरोऽस्मिन्न खलुं न विमूढा तव सखी पुरन्ध्रीणां चित्तं कुसुमसुकुमारं हि भवति॥ ४६॥