हत्थेहि कमलदलकोमलेहि छित्तो ण पल्लविओ॥ ४९॥
(सत्यमेव काष्ठमयः सुरनाथो येन हालिकदुहित्रा।
हस्ताभ्यां कमलदलकोमलभ्यां स्पृष्टो न पल्लवितः॥)
भवतु विदितमेतत् काष्ठमेवासि सत्यं किमपरमभिधास्ये कानने वर्धितोऽसि।
कुवलयनयनायाः पाणिसङ्गोत्सवेऽस्मिन् मुसल किसलयं ते तत्क्षणादद्य जातम्॥ ५०॥
अचेतनस्यैव प्रभाववतो यथा—
अन्विष्यद्भिरयं चिरात् कथमपि प्राप्येत यद्यर्थिभि— र्नाथ त्वं पुनरर्थिनः प्रतिदिनं यत्नात् समन्विष्यसि।
प्राप्तौ चिन्तितमात्रकं दददसौ चिन्तातिरिक्तप्रदं त्वामालोक्य विदीर्यते यदि न तद् ग्रावैव चिन्तामणिः॥ ५१॥