उच्चिणस्सु पडिअ—कुसुमं मा धुण सेहालिअं हलिअ—सुण्हे।
एस अवसाणविरसो ससुरेण सुओ वलअसद्दो॥ ५५॥
(उच्चिनुष्व पतति—कुसुमं मा धुनीहि शोफालिकां हालिक—स्नुषे।
एषोऽवसानविरसः श्वशुरेण श्रुतो वलय—शब्दः॥)
अत्र मधुरविरसशब्दावास्वाद्यविशेषणत्वेन रूढौ तद्व्यवधानेन वर्णनयाऽऽकृतिवलयशब्दयोरारोपितौ विशेषणभावमनुभवतः।
अङ्कुरिते पल्लविते कोरकिते कुसुमिते च सहकारे।
अङ्कुरितः पल्लवितः कोरकितः कुसुमितश्च हृदि मदनः॥ ५६॥