मुख्यया गौण्या वान्यविशेषणस्य सतोऽन्यत्रारोपणम् उपचारः।
तन्निमित्तिकोपचारनिमित्ता; सा तु गौणव्यवहितार्थत्वाद् गौणी भवति; तस्या अपि धर्मगुणाकृतिक्रियास्वरूपजात्यादयः प्रवृत्तिनिमित्तम्; तद्भेदात् सापि षट्प्रकारा भवति—
धर्मनिमित्ता, गुणनिमित्ता, आकृतिनिमित्ता, क्रियानिमित्ता, स्वरूपनिमित्ता, जातिनिमित्ता च। तासु—
भवतु रुषि कठोरा किन्तु रम्या मृगाक्षी॥ ५२॥
तालै; शिञ्जद्वलयसुभगैर्नर्तितः कान्तया मे॥ ५३॥
अत्र कठोरसुभगशब्दो मूर्तिमद्द्रव्यप्राणिविशेषयोर्विशेषणत्वेन रूढौ, रोषवलयशिञ्जयोरारोप्यमाणौ, तद्योगान्नायिकातालयोरपि विशेषणभावमनुभवतः।
(२) गुणनिमित्ता यथा— (शाकु. १.१७)
किमिव हि मधुराणां मण्डनं नाकृतीनाम्॥ ५४॥