पल्लविअं पिव/विअ करपल्लवेहिं पप्फुल्लिअं व णयणेहिं।
फलिअं विअ पीणपओहरेहि अज्जाएॅ लावण्णम्॥ ५७॥
(पल्लवितमिव करपल्लवाभ्यां प्रफुल्लितमिव नयनाभ्याम्।
फलितमिव पीनपयोधराभ्यामार्याया लावण्यम्॥)
अत्राङ्कुरितपल्लवितादयो मूर्तिमत्सु भूरुहादिषु आकृतिविशेषतो विशेषणत्वेन रूढास्तद्व्यवधानेनामूर्तयोर्मदनलावण्ययोरारोप्यमाणा गौणं विशेषणभावमनुभवन्ति।
शशिनमसूत प्राची नृत्यति मदनो हसन्ति ककुभोऽपि।
कुमुदरजः पटवासं विकिरति गगनाङ्गणे पवनः॥ ५८॥
अवऊहिअपुव्वदिशे समअं जोण्हाए सेविअपओसमुहे।