तदन्वितः पदेनार्थः स्वकीयः प्रतिपाद्यते॥ ४०॥(प्र.प८/९)
योग्यस्याकाङ्क्षितस्य यदानन्तर्यम्।
स द्विधा— अभिधानविषयः अभिधेयविषयश्च।
तत्रोच्चारणनिमित्तोऽभिधानविषयः, अविनाभावनिमित्तोऽभिधेयविषयः। तयोः—
आद्यो(ऽभिधानविषयो) यथा—(काव्याद. ३१.४३)
लीलास्मितेन शुचिना मृदुनोदितेन व्यालोकितेन लघुना गुरुणा गतेन।
व्याजृम्भितेन जघनेन च दर्शितेन सा हन्ति तेन गलितं मम जीवितेन॥
अत्र लीलास्मितादिभिः शुच्यादीनि विशेषणानि यथासान्निध्यमभिसम्बध्यन्ते। द्वितीयो यथा— (कासूवृ. ५.१.१४)