भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 201 to 210 of 1676 verses
अस्मिन् सुराणां विजयाभ्युपाये तवैव नामास्त्रगतिः कृती त्वम्।

अप्यप्रसिद्धं यशसे हि पुंसामनन्यसाधारणमेव कर्म॥४५॥

यथा च— (कुसं. ५.६७)

त्वमेव तावत् परिचिन्तय स्वयं कदाचिदेते यदि योगमर्हतः।

वधूदुकूलं कलहंसलक्षणं गजाजिनं शोणितबिन्दुवर्षि च॥ ४६॥

(२३. निषेधः)

प्रसज्यप्रतिषेधः पर्युदासो वा निषेधः। तयोर्यत्रासामर्थ्यं वाक्यभेदश्च स प्रसज्यप्रतिषेधः। यथा असूर्यंपश्या राजदाराः, अब्राह्मणको देशः, 'सुडनपुंसकस्य' (१.१.४३) इति। यत्र सामर्थ्यमेकवाक्यता च स पर्युदासः। यथा अब्राह्मणः, अनेकः, अपचसि त्वं वृषलेति। स चोभयरूपोऽपि प्रागभावादिभेदाद् भिद्यते। यथा—(रघु. १८.४३)

पर्यन्तसञ्चारितचामरस्य कपोललोलोभयकाकपक्षात्।

तस्याननादुच्चरितोऽपवादश्चस्खाल वेलास्वपि नार्णवानाम्॥ ४७॥

यथा च— (रघु. १८.४८)

Showing 201 to 210 of 1676 verses