भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 211 to 220 of 1676 verses
अनश्नुवानेन युगोपमानमलब्धमौर्वीकिणलाञ्छनेन।

अस्पृष्टखड्गत्सरुणापि चासीद् रक्षावती तस्य भुजेन भूमिः॥ ४८॥

(२४. प्रतिनिधिः)

मुख्याभावे तदर्थकारिणः सदृशस्य प्रतिनिधानं प्रतिनिधिः। यथा व्रीह्यभावे नीवाराः, कुशाभावे काशाः प्रतिनिधीयन्त इति।

ननु च क्रियासु सामर्थ्यमात्रेण प्राप्‍ता व्रीह्यादयः पुनः श्रुत्यादिभिर्नियम्यमाना नीवारादीनां निवर्तका विज्ञायन्ते। तत्र यथैवान्यानि द्रव्याणि अयज्ञीयानि च पलाण्ड्वादीनि सत्यप्यर्थित्वे 'दृष्टेऽपि सामर्थ्ये शास्त्रेणापर्युदस्तस्याधिकारो युक्त' इति न्यायाद् वचनान्तराभावाच्च न प्रतिनिधीयन्ते; तथा नीवारादीनामपि व्रीह्यादिर्नियमैर्निषिद्ध— त्वाद् वचनान्तराभावाच्च नास्त्येव प्रतिनिधिरिति किमिदं दूषणं प्रतिनिधिर्न प्राप्नोतीति।

उच्यते — 'यजेतेति यागे द्रव्यत्वमेव यजतिक्रियारूपैकदेशभावादङ्गत्वेन प्राप्‍तसन्निधानं, व्रीहित्वादयस्तु सामान्यविशेषाः सामर्थ्यप्राप्‍तसन्निधाना अपि क्रियारूपेणानुपादानाद् द्रव्यत्ववदङ्गभावेन प्रतीयन्ते। तत्र व्रीहिशब्दो हि अधिकार्था— ध्यावापायोपादीयमानो द्रव्यत्वसहचारिणो नीवारादीन्न बाधते। न हि तन्निवृत्तौ तस्य व्यापारोऽस्ति, नाप्यभ्यनुज्ञायाम्। अतः शिष्टाचरितो लोकप्रसिद्धश्च प्रतिनिधिरस्त्येवेति।

यदि तर्हि व्रीहिश्रुतिर्न नियमार्था, नीवारादीनां विकल्पः प्राप्नोति।

नैवम्, असम्भवो नामायं नियमसदृशफलोऽन्य एव बाधविशेषः, यमसम्भवनियम इत्यामनन्ति। तत्र व्रीहित्वमधिकं शब्देनाङ्गभावमापद्यते; अतोऽप्रतिषिद्धान्यपि श्रुत्या नीवारत्वादीनि विरुद्धैकार्थ समवायित्वान्न सम्भवन्ति। सम्भवेऽपि काममविरोधात् सामर्थ्यप्राप्‍तसन्निधानानि विना शब्दव्यापारेण समुच्चीयेरन्, न तु विकल्प्येरन्।

तत्रैतत् स्यात् यथा द्रव्यत्वं नियतसन्निधानं क्रियापदार्थैकदेशभूतमेव क्रियाशब्देन लक्ष्यते, तथा सर्वेऽपि व्रीहित्वादयो द्रव्यत्वसहचारिणो विशेषाः क्रियापदार्थैकदेशभूता एव क्रियाशब्देन कस्मान्न लक्ष्यन्ते?

नैवम्, न हि सर्वेषां वस्तुत्वेन सतामर्थानां शब्दोऽभिधायको भवति। विवक्षानिबन्धनं हि वस्तुसतामप्यर्थानामभिधानं, विवक्षा च शब्दसामर्थ्यनिबन्धना; तत्र यथैव द्रव्यत्वसहचारिणो नियतसन्निधाना अपि शुक्लादयो गुणाः सत्यपि द्रव्यवदुपयोगे शब्दशक्त‍यनुरोधात् क्रियाशब्देनाङ्गत्वेन प्रत्याययितुमशक्यत्वाद— विवक्षिताः, तथैव शब्दशक्त‍यनुरोधाद्व्रीहित्वादीनां द्रव्यत्वसहचारिणामुपयोगवतां भेदानामङ्गत्वेनाविवक्षाया नियमाभावाच्छास्त्रेण (अ)पर्युदस्ते विशेषान्तरसहचारिणि द्रव्यत्वे नित्यस्य कर्मणोऽङ्गमात्रासन्निधाने मा भूदप्रवृत्तिः, काम्यस्य वा सन्निहितेष्वङ्गेषु प्रवृत्तस्य मा भूदङ्गभ्रेषे विच्छेद इति शास्त्रेणापर्युदस्तः प्रतिनिधिः प्रथमकल्पाभाव उपादीयते। स तु पदार्थसद्‍भाव एव युज्यते। यस्य तु पुत्रीयतीतिवत् क्रियाविशेष एव शक्तिद्रव्यसंसर्गभिन्न एको वाक्यार्थः, तस्य अविभक्तशब्दार्थत्वादभ्रेषेऽपि तस्मिन्नर्थात्मन्यविकले निवृत्तेरङ्गान्तरप्रतिनिधानेऽपि पटीयतीतिवदविद्यमानोद्देशविभागं क्रियान्तरं प्रतिनिहितं स्यात्। अप्रतिनिधेया च क्रियेति।

Showing 211 to 220 of 1676 verses