शैलाधिराजतनया न ययौ न तस्थौ॥ ५३॥
साब्भ्रेऽह्नीव स्थलकमलिनीं न प्रबुद्धां न सुप्ताम्॥ ५४॥
पायादेकं मदनविजयद्वेषिणस्तद् वपुर्वः॥ ५५॥
वाक्यगर्भो वाक्यसमुच्चयः वाक्यसंवृतिरित्यादिः वाक्यविषया, यथा—
दिङ्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते (द्र. ७.१४८)
क्रियासमुच्चयसमभिव्याहाराभ्यासादिभिः वाक्यार्थविषया, यथा—(माघ. १.५१)
पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः।
विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्निश दिवः॥ ५६॥