इत्यादि प्राप्तौ निवारणं निषेधः, यथा—(शाकु. ४.१८)
भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः॥ ६०॥
विधिनेषेधयोग्यताधिकारः, यथा—(शाकु. ४.१८)
भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सोकिनी।
यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः॥ ६१॥
विधिनिषेधाभ्यां शेषप्रतिषेधाभ्यनुज्ञाने परिसङ्ख्या, यथा—
पञ्च पञ्चनखा भक्ष्या वामेनाक्ष्णा न पश्यति।
काठिन्यमस्याः कुचयोः किमसद्यन्न रोचते॥ ६२॥
जातिक्रियागुणद्रव्येषु उभयावलम्बी विकल्पः, यथा—(मनु. ६.६)
पुत्रेषु दारान्निक्षिप्य वनं गच्छेत् सहैव वा॥ ६३॥