विशेषश्रुत्या सामान्यश्रुतेरबाधः सम्बन्धाबाधनम्। यथा ब्राह्मणा भुञ्जतां माठरकौण्डिन्यौ परिवेविष्टामिति। यथा च—(कुसं.)
यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे।
मास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम्॥ ४०॥
द्वयोस्तुल्यबलयोः पर्यायेण प्राप्तिर्विचारणा वा विकल्पः। यथा व्रीहिभिर्वा यवैर्वा जुहुयात्, 'हन्ताहं पृथिवीमिमां नि दधानीह वेह वा' (ऋवे. १०.११९.९) इति। यथा च पर्यायप्राप्तौ—(वेसं. २.३)
गुप्त्या साक्षान्महानल्पः स्वयमन्येन वा कृतः।
करोति महतीं प्रीतिमपकारोऽपकारिषु॥ ४१॥
यथा वा विचारणायाम्—(कुसं. ५.७८)
विभूषणोद्भासि पिनद्धभोगि वा गजाजिनालम्बि दूकूलधारि वा।