विपर्ययादेरतस्मिंस्तदिति व्यपदेशस्तद्भावापत्तिः। यथा शुक्तिकायां रजतमिति, मृगतृष्णिकायां जलमिति, रज्जावहिरिति। यथा च—
चंद्रहिवपि वाविहि कूपि सरिपल्लति तल्लितलाइ।
चंदहकच चकोडिआकेण हआसे माइ॥ ३८॥
(चन्द्रवपुषि वाप्यां कूपे सरसि पल्वले तटाकिकायां तटाके।
चन्द्रस्य कृतोऽग्निः केन हताशेन मातः॥)
अधिकारित्वापादनं योग्यतापत्तिः। यथा दर्भाणां स्थाने शरैः प्रस्तरितव्यम्, 'लोहितोष्णीषा ऋत्विजः प्रचरन्ति' इति। यथा च—(मेघ. ५६)
शब्दायन्ते मधुरमनिलैः कीचकाः पूर्यमाणाः संरक्ताभिस्त्रिपुरविजयो गीयते किन्नरीभिः।
निर्ह्लादी ते मुरज इव चेत् कन्दरेषु ध्वनिः स्यात् सङ्गीतार्थो ननु पशुपतेस्तत्र भावी समस्तः॥ ३९॥