भवतु समदना रतये तिलकवती चारुचम्पकच्छाया।
धनचन्दनधवलकुचा कान्ता तव विद्विषामटवी॥ ३४॥
आदिग्रहणात् असम्भवनियमो विशेषे प्रत्यक्षश्रुतिरित्यादयो गृह्यन्ते। तयोः —
हारो थणाण सवणाण कुण्डला मेहला णिअंबस्स।
अच्छीण उणो विभवे वि मंडणं कज्जलसलाआ॥ ३५॥
(हारः स्तनयोः श्रवणयोः कुण्डले मेखला नितम्बस्य।
अक्ष्णोः पुनर्विभवेऽपि मण्डनं कज्जलशलाका॥)
विशेषप्रत्यक्षश्रुतिर्यथा—(उ.राच. १.३८)
इयं गेहे लक्ष्मीरियममृतवर्त्तिर्नयनयो— रसावस्याः स्पर्शो वपुषि बहुलश्चन्दनरसः।