अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकरसः(सरः) किमस्या न प्रेयो यदिपरमसह्यस्तु विरहः॥ ३६॥
सेयमुद्भूतसम्बन्धव्यतिरेकेण इ X X X दं पदार्थानामितरेतरं प्रत्याकाङ्क्षासन्नि— धियोग्यतापेक्षिणी व्यपेक्षा इत्युच्यते॥
का पुनरियमाकाङ्क्षा नाम? प्रतिपत्तुर्जिज्ञासा।
सा कथं पदार्थानामुपपद्यते ? कारणे कार्योपचारात्।
तथा हि— अभिधानपर्यवसानमभिधेयपर्यवसानं च जिज्ञासोत्पत्तिकारणं, तच्चोपचारेणाकाङ्क्षेति व्यपदिशन्ति। तत्राभिधानपक्षे द्वारमित्येकपदप्रयोगेऽभिधानमेव न पर्यवस्यति। न ह्यनुच्चरिते योग्यप्रतियोगिनी सन्निधायिनि पदे संव्रियतामपाव्रियता— मित्यादावन्विताभिधानं भवति। वृद्धव्यवहारे चान्वितार्थान्येव पदानि प्रतीयन्ते; बालो हि व्युत्पद्यमानः प्रयोज्यवृद्धस्य शब्दश्रवण समनन्तरभाविनीं विशिष्टचेष्टानुमितां शब्दकारणिकां प्रतीतिमन्वितार्थविषयाम(न्)वगच्छन्नन्वित एवार्थे पदानामभिधानसामर्थ्य— मवधारयति। विश्वजिता यजेतेत्यादौ पुनरनेकपदप्रयोगाल्लब्धेऽन्विताभिधानेऽभिधेयमेव न पर्यवस्यति, अत्रानुष्ठेयतयावगतस्य वाक्याभिधेयस्यार्थस्यानुष्ठातारमन्तरेणानुपपत्तेः, तदुपपत्तये युक्तैवानुष्ठातृजिज्ञासा; तस्यां च सत्यामपरिपूर्णत्वावगमाल्लोकवदध्याहारे कर्तव्ये योग्यत्वात् स्वर्गकाम एवानुष्ठाताध्याह्नियते। अभिहितान्वयवादिपक्षेऽपि पदार्थान्तरमन्तरेणान्वयासामर्थ्यात्तदुपपत्तये युक्तैव प्रतियोगिजिज्ञासा; तस्यां च सत्यामपरिपूर्णवाक्यपरिपूरकतयान्विताभिधानवदेव प्रकरणादिवशेन योग्याध्याहारः क्रियते।
नन्वेवं सति यत्र पदत्रयं प्रयुज्यते गामानय शुक्लामिति लोके, तत्राभिधानाभिधेया— पर्यवसानयोरसम्भवान्नाकाङ्क्षास्तीति कथमन्विताभिधानम्? वाक्यस्य गामनयेत्येतावतैव परिपूर्णत्वात् सत्यम्, पदानुच्चारण एवमेतत्। उच्चरिते सत्येतस्मिन्नस्याप्यानयति— सन्निधानात् तदेकवाक्यत्वावगमादानयत्यन्वितस्यार्थाभिधायित्वावधारणादाकाङ्क्षां च विना तदसम्भवादानयतेराकाङ्क्षा परिकल्प्यते। उक्तं च (शाबर—)भाष्यकृता— 'भवति च सा रक्तं प्रत्याकाङ्क्षा' (शाभा. १.२.७) इति। तेन तत्रान्विताभिधान— सिद्धयर्थमेवाकाङ्क्षा। यदि परमयं विशेषः, द्वारमित्यादौ तस्यैव पदस्यान्विताभिधाना— काङ्क्षा, गामानय शुक्लामिति तु पदान्तरस्येति। उक्तं च—
अन्वितस्याभिधानार्थमुक्तार्थघटनाय वा।
प्रतियोगिषु जिज्ञासा सा साऽऽकाङ्क्षेति गीयते॥ ३७॥