गतं च वसुदेवस्य कुलं नामावशेषताम्॥ १४॥
अथ कथं नित्यप्रवृत्तस्य वर्तमानप्राप्तावपि तस्थुः स्थास्यन्ति गिरयः, मार्गे कूपोऽभूत्, कूपो भविष्यतीति भूतभविष्यत्कालविषयः प्रयोगो भवति।
उच्यते हेहयादिवंशेषु ये राजानो बभूवुः, तेषां याः क्रियाः तासामतीतत्वात् तत्सम्बन्धविवक्षायां भूतकालविषयं प्रत्ययं प्रयुङ्क्ते, हेहयराज्येऽपि पर्वता इत्थमेव तस्थुरिति। तथा आगामिमन्वन्तरेषु ये राजानो भविष्यन्ति तेषां याः क्रियास्तासां भविष्यत्वात् तत्सम्बन्धविवक्षायां भविष्यत्कालविषयं प्रत्ययं प्रयुङ्क्ते; यदा बलिरिन्द्रो भविष्यति तदापीत्थमेव पर्वताः स्थास्यन्तीति।
एवं कूपस्यापि भूतभविष्यद्दर्शनक्रियासम्बन्धाद् अभूद् भविष्यतीति क्रियाभिसम्बन्धो न विकल्प्यत इति॥
(प्रकृत्यर्थोपाधिः = उपग्रहः)
उपग्रहोऽपि प्रकृत्यर्थोपाधिरेव।
परस्मैपदात्मनेपदोभयपदिनामात्मनेपदपरस्मैपदयोगनिमित्तमर्थविशेषः। तदुक्तम्—
य आत्मनेपदाद् भेदः क्वचिदर्थस्य गम्यते।