भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 191 to 200 of 841 verses
प्रत्ययार्थनिमित्तो यथा— 'भावकर्मणोरात्मनेपदम्' (१.३.१३) कर्मकर्तरि फलवत्कर्तरि च, आस्यते, पच्यते, विपच्यते, पचत इति।

उपस्कारनिमित्तो यथा— 'विपराभ्यां जेः' (१.३.१९), 'समवप्रविभ्यः स्थः' (१.३.२२), 'समस्तृतीयायुक्तात्' (१.३.५४), 'मिथ्योपपदात् त्कृञोऽभ्यासे' (१.३.७१), विजयते, पराजयते, संतिष्ठते, अवतिष्ठते, प्रतिष्ठते, वितिष्ठते, अश्वेन सञ्चरते, पदं मिथ्या कारयते।

उपस्कारार्थनिमित्तो यथा— 'वेः पादविहरणे' (१.३.४१), 'आङो ज्योतिरुद्गमने', 'उपान्मन्त्रकरणे' (१.३.२५), 'दाणश्‍च सा चेच्‍चतुर्थ्यर्थे' (१.३.५५), विक्रमते राजा, आक्रमन्ते ज्योतीषि, सावित्र्योपतिष्ठते, दास्या संप्रयच्छत इति।

(परस्मैपदयोगे)

प्रकृतिनिमित्तः परस्मैपदयोगे यथा— 'शेषात्कर्तरि परस्मैपदम्' (१.३.७८) भवति, व्यतिहसन्ति, व्यतिहरन्ति परस्परस्य व्यतिलुनन्ति।*

प्रत्ययार्थनिमित्तो यथा— 'कुषिरजोः प्राचां श्यन् परस्मैपदं च' (३.१.९०) 'शेषात् कर्तरि परस्मैपदम्'। रज्यति वस्त्रं स्वयमेव, कुष्यति पादस्स्वयमेव, रजति वस्त्रम्, कुष्णाति पादमिति।

उपस्कारनिमित्तो यथा— 'अनुपराभ्यां कृञः' (१.३.७९), 'इतरेतरान्योन्योप— पदाच्‍च' (१.३.१६), अनुकरोति, पराकरोति, इतरेतरस्य व्यतिलुनन्ति, अन्योन्यस्य व्यतिलुनन्तीति।

उपस्कारार्थनिमित्तो यथा— 'समोऽकूजने' (१.३.२१वा.१) 'आङो दोऽनास्य— विहरणे' (१.३.२०), 'उदोऽनूर्ध्वकर्मणि' (१.३.२४), प्रादेरजाद्यन्तराद्युजेरयज्ञापात्रेषु, संक्रीडन्ति शकटानि, व्याघ्रो मुखं व्याददाति, आसनादुत्तिष्ठति, यज्ञपात्राणि प्रयुनक्तीति।

(उभयपदप्रयोगे)

उभयपदप्रयोगे प्रकृतिनिमित्तो यथा— 'वा क्यषः' (१.३.९०), अप्रादेर्वा, लोहितायति लोहितायते, क्रामति क्रमत इति।

Showing 191 to 200 of 841 verses