यथा गौरिति सङ्घातस्सर्वो नेन्द्रियगोचरः।
भागशस्तूलपलब्धस्य बुद्धौ रूपं निरूप्यते॥ २७॥
काल्पनिकस्तु युगपद्ग्रहणाभिमानः प्रत्यक्षभ्रमनिबन्धनम्। यथाऽलातस्य आविद्धविष्वग्गते देशे नैरन्तर्येंण परिवृत्तिरूपमविरामेणावधारयन्नन(वसितकालभेदो युगपत्सकलदेशव्यापि अ) परिच्छिन्दन्नध्यवस्यति चक्रमिति; यथा क्रमवन्तः क्रियाभागाः क्रमेणैवावसिता लघुतरं परिवर्तित्वादनवधृतकालभेदैर्युगपदेवाध्यवसीयन्ते; यथाध्यवसायं च दर्शनाभिमानमुत्पादयन्तः प्रत्यक्षव्यवहारं वर्तयन्ति। यदुक्तम्—
इन्द्रियैरन्यथाप्राप्तौ भेदांशोपनिपातिभिः।
अलातचक्रवद् रूपं क्रियाणां परिवर्तते॥ २८॥
(क्रियाया अप्रत्यक्षत्वम्)
अप्रत्यक्षैव तु क्रिया। यदाह महाभाष्यकारः—क्रिया नामेयमत्यन्तापरिदृष्टा अशक्या पिण्डीभूता निदर्शयितुं, यथा गर्भो निर्लुठितः साऽसावनुमानगम्येति। ननु प्रत्यक्षाप्रवृत्तौ संबन्धग्रहणाभावात् कथं क्रियाविषयेऽनुमानं प्रवर्तते ?
नैष दोषः; धातुवाच्यस्य समूहस्य युगपदसन्निधानादप्रत्यक्षत्वम्; एकैकस्य तु क्षणस्य प्रत्यक्षत्वे बुद्ध्या सङ्कलय्य पचतीति प्रयुज्यते; यदाप्येकस्मिन् क्षणे पचतीति प्रयोगस्तदा तत्र समूहारोपणम्। यदाह—