भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 161 to 170 of 595 verses
ननु चोपसर्जनपदानि प्रधानार्थावच्छेदव्यापारावेशवन्ति प्रधानोपकारिणं विशेषणभावं न जहतीत्युच्यते। अयमेव चोपसर्जनपदानामर्थो यत् प्रधानमवाप्‍तरूपभेदमवगमयन्ति। तथा हि राज्ञः पुरुष इति स्वामिविशेष— सम्बन्धोपहितभेदः पुरुषार्थोऽवगम्यते राजपुरुष इति। न चापदार्थरूपभेदं प्रधान— स्याधातुं तदनवहीयमानस्वार्थमेवोपसर्जनपदमिति किमुच्यते जहत्स्वार्था वृत्तिरिति?

एवं मन्यते — 'पदस्य स्वातिशयपतिपत्तौ स्वाधीनत्वं, तस्य त्यागात् स्वार्थापहानम्। यदि चोपसर्जनपदं न स्वार्थेन प्रधानस्योपकुर्यात्, स्वरूपमेवास्य हीयेत। यतः परोपकारिताकारणमेवोपसर्जनत्वं, प्रयोगवैयर्थ्यं चोपसर्जनस्य प्रसज्यते। प्रधानस्योत्तरपदेनैव प्रतीतत्वात्। न चानर्थकाणां परेण सम्बन्धो घटते, सामर्थ्यनिबन्धना समाससंज्ञा च नोपपद्यते। तस्मान्न सकलार्थपरित्यागः। किं तर्हि? विशेषणतया स्वपदोपधीयमानरूपातिशयप्रतिपत्तियोग्यतामात्रमस्यापहीयते।

ननु च परित्यक्ताशेषार्थमपि उपसर्जनपदमर्थविशेषाभिधायिनस्समुदायस्य वर्णवदङ्गभावमापत्स्यते (वाप. ३ वृ.)?

नैवम्; एवं हि प्रतीयमानः प्रधानार्थोपयोगी पदार्थः परित्यक्तो भावी। न च परित्यक्तस्वार्थेभ्य उपसर्जनपदेभ्यः प्रधानविशेषो विशेषणविशेष्यावच्छिन्नः समुदायो वा प्रतीयते। न चाप्रतीयमानश्शब्दार्थो न्याय्यः कल्पयितुमिति यत्किंचिदेतत्। यद्यपि चायं समुदायः एवाव्यपदेश्‍यपूर्वापरभागो भागभेदानुयात इवावसीयमानः संबन्धी पदार्थद्वयोपहितभेदं ह्यर्थमभिधत्ते। तथापि तदधिगमोपायः पूर्वोत्तरविभागदर्शनम्। तत्र च वृत्तौ समर्थाधिकारः क्रियते। सामर्थ्यं नाम भेदस्संसर्गो वा (मभा. २.१.१)।

अपर आह — भेदसंसर्गौ वा सामर्थ्यमिति।

कः पुनः भेदस्संसर्गो वा? इह राज्ञ इत्युक्ते सर्वं स्वं प्रसक्तम्। पुरुष इत्युक्ते सर्वः स्वामी प्रसक्तः। इहेदानीं राजपुरुषमानयेत्युक्ते राजा पुरुषं निवर्तयति अन्येभ्यः स्वामिभ्यः। पुरुषोऽपि राजानमन्येभ्यः स्वेभ्यः। एवमेतस्मिन्नुभयतोऽवच्छिन्ने यदि जहाति कामं जहातु। न जातुचित् पुरुषमात्रस्यानयनं भविष्यति।

ननु च पुरुष इत्युक्ते न स्त्रीत्येतावता संप्रत्ययेन भवितव्यम्।

सत्यमेवैतत्। यदा तु पुरुष आकारविशेषाद् द्रव्यान्तरसम्बन्धाद्‍वा स्वातन्त्र्येण निर्ज्ञात उपलब्धः तं प्रत्येतदुच्यते। राज्ञो हि अनिर्ज्ञातार्थत्वात् परार्थायां प्रवृत्तौ सामान्यसंसर्गविषयः प्रातिपदिकार्थव्यतिरेक उपजायते। पुरुषस्तु निर्ज्ञातार्थात् स्वामिविशेषसंबन्धादवसीयमानः पूर्वमव्यतिरिक्तप्रातिपदिकार्थः प्रथमान्तः स्वामि— विशेषस्थं सम्बन्धमनुभवति। तस्मिन् प्रतिलब्धविभक्तौ य उत्तरो व्यतिरेक उपजायते वाक्‍यार्थः स भवति। इहेदानीं राजा पुरुषं निवर्तयति अन्येभ्यः स्वामिभ्यः। तत्र योऽसौ भेदस्तत्सामर्थ्यं तन्निमित्ता च वृत्तिः; भेदनिमित्तायां च वृत्तौ सत्यां वृत्त्यभिमुखस्य भेदमुपजनस्य स्वार्थो निवर्तते। यस्यापि न निवर्तते पुरुषस्य सोऽपि स्वामिनं भिनत्ति। एवमेतयोर्द्वयोरन्योन्यक्‍लृप्‍तौ सत्यामुभयतो व्यवच्छेदेन निर्ज्ञाते पुरुषविषेशे समुदायार्थे चान्यस्मिन् प्रादुर्भूते यदि राजार्थो निवर्तते कामं निवर्तताम्। प्राक् तु वृत्तेरकृतार्थस्य निवृत्तौ वृत्तिरेव न स्यात्। वृत्तिनिमित्ता च निवृत्तिः। तस्माददोषः।

अपर आह — पुरुष एव हि राजपुरुषो ब्राह्मणादिपुरुषश्‍च। तत्र राजा स्वाम्यन्तरनिवृत्तिमात्रं करोति, न त्वसौ राजार्थमेव निवर्त्तयति। स्वाम्यन्तरनिवृत्तौ तु कृतायां पुरुष एव राजपुरुषार्थमाहेति।

अथान्यन्मतम् — नावस्थितार्थपरित्यागेन शब्दोऽर्थान्तरम् उपादत्ते। न ह्यपौरुषेयसंबन्धोपहितनिवेशमर्थात्मानं रूपदर्शनावसीयमानं शरीरं शब्दाः परित्यक्तुमुत्सहन्ते। यथा हि ते स्वरूपमसमर्थास्त्यक्तुं तथार्थमपि नैव योगक्षेममपहातुं क्षमन्ते। न हि जलमनलसंस्पर्शोपचीयमानस्पर्शातिशयमप्यात्मीयं स्नेह जहाति। निमित्तविशेषसन्निधानो पपादिते पुनरेषामर्थान्तराभिधानसामर्थ्ये कामचारः। तस्मादभ्युच्चय एवार्थान्तरस्य वृत्तावुपसर्जनपदानां प्रधानोपकारातिशयः। प्रधानोपकारस्तु स्वामिविशेषावच्छेदः पुरुषार्थस्य। स चापरित्यागेनैव स्वार्थस्य कर्तुं शक्‍यते। न ह्यत्यन्तमपाकीर्णस्वार्थं शब्दः रूपातिशयमर्थान्तरे निवेशायितुं शक्‍नोति। रूपातिशयनिवेशनायां पदार्थनिबन्धनत्वादनङ्गीकृतस्वार्थानि च यान्युपसर्जनपदानि प्रधानार्थनिवेशीनि तमेवार्थं शब्दान्तरेण प्रतिपादयन्ति। न तैरतिशयः प्रधानस्य प्रतिपादितो भवति। ततश्‍च राजपुरुषमानयेत्युक्ते पुरुषमात्रस्यानयनं प्राप्‍नोति, औपगवमानयेति चापत्यमात्रस्येति। तदवधार्याह — अथवा पुनरस्त्वजहत्स्वार्था वृत्तिः। युक्तं पुनः यदजहत्स्वार्था नाम वृत्तिः स्यात्? बाढं युक्तं; एवं हि दृश्‍यते लोक भिक्षुकोऽयं द्वितीयां भिक्षामासाद्य पूर्वां भिक्षां न जहाति, सञ्चयायैव यतते।

Showing 161 to 170 of 595 verses