भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 141 to 150 of 595 verses
अथ ये वृत्तिं वर्तयन्ति किं त आहुः?

परार्थाभिधानं वृत्तिरिति।

कः पुनरस्यार्थः?

किं परार्थस्याभिधानमाहोस्वित्परार्थमभिधानमिति ?

उभयथापि न दोषः।

यदा तावदेतावद्दर्शनमनेकमप्यर्थमेक एव शब्दः प्रत्याययति, तदा वाक्‍यावस्थायां शब्दान्तराभिधेयतया प्रतीतमर्थात्मानं वृत्तिविषये तदुपसर्जनपदमभिधेयभावेनोपादत्ते। तदेतद्विभक्तपदावस्थायामभिधानशक्तिप्रतिघाताद्वृत्तौ परार्थस्याभिधानं परार्थाभिधान— मुच्यते। यदा पुनरेष पक्षः एकश्शब्दोऽनेकमर्थं न प्रत्याययति तदा पुरोपात्तमेवार्थं वृत्तिविषये तान्युपसर्जनपदानि परार्थमुपाददते। व्यक्तमेवास्मिन्दर्शने परार्थाभिधानम्। तत्र द्वयी गतिः— विहाय वा प्रसिद्धमर्थसम्बन्धमुपसर्जनपदान्यर्थान्तरमुपाददीरन्, अवस्थित एव वा प्रच्येर्थेऽर्थान्तरमभिदधीरन् (वाप. ९४)। द्वयमपि हीदमन्यत्र दृश्‍यते; तद्यथा दधिकलशे दध्यपनीय क्षीरं निधीयते, जलं तु सिकताकुम्भे सहैवावतिष्ठते सिकतादिभिः। तदाह— तेषां परार्थाभिधानं वृत्तिरिति ब्रुवतां किं जहत्स्वार्था वृत्तिराहोस्विदजहत्स्वार्थेति ? (मभा. २.१.१)

किञ्चातः?

यदि जहत्स्वार्था, राजपुरुष आनीयतामित्युक्ते पुरुषमात्रस्यानयनं प्राप्नोति, औपगवमानयेति चापत्यमात्रस्य।

अथाजहत्स्वार्था? उभयोर्विद्यमानस्वार्थयोर्द्वयोर्द्विवचनमिति द्विवचनं प्राप्नोति। तदेवमुभयत्रापि दोषदर्शनादुभया प्रतिपत्तिः।

तत्रैकेषां दर्शनम्— 'उपात्तार्थपरित्यागेनार्थान्तरनिवेशीन्युपसर्जनपदानि'; यतोऽर्थान्तरपराधीनस्य शब्दस्य प्राच्यमेवार्थमनुविधीयमानस्यार्थान्तराभिधानमशक्‍यम्। तस्मादर्थान्तरमभिदधता परित्याज्यमनेनोपात्तमर्थवस्तु। तदाह— का पुनर्वृत्तिर्न्याय्या, जहत्स्वार्थेति। युक्तं पुनर्यज्जहत्स्वार्था नाम वृत्तिः स्यात्? बाढं युक्तम्। एवं हि दृश्‍यते लोके— पुरुषोऽयं परकर्मणि प्रवर्तमानः स्वं कर्म जहाति। तद्यथा तक्षा राजकर्मणि प्रवर्तमानः स्वं कर्म जहाति। एवं युक्तं यद्‍राजा पुरुषार्थे उपगुश्‍चापत्यार्थे वर्तमानः स्वमर्थं जह्यात्।

Showing 141 to 150 of 595 verses