किं द्वारि दैवहतिके सहकारकेण संवर्धितेन विषपादप एष पापः।
अस्मिन्मनागपि विकासविकारभाजि भीमा भवन्ति मदनज्वरसन्निपाताः॥ ३९॥
(२) यत्र विशेषणविशेष्ययोः प्रथममेवैकममुख्यं भवति असौ अमुख्यविषयः।
स विशेष्यस्यामुख्यत्वे सामानाधिकरण्येन धर्मनिमित्तो यथा— (माघ. ७.७३)
हिमलवसदृशः श्रमोदबिन्दूनपनयता किल तन्नवोढवध्वाः।
कुचकलशकिशोरकौ कथंचित् तरलतया तरुणेन पस्पृशाते॥ ३२॥
मुखपङ्कजरङ्गेऽस्मिन् भ्रूलता नर्तकी तव।
लीलानाट्यामृतं दृष्टौ सखि ! यूनां निषिञ्चाति॥ ३३॥
विशेषस्य मुख्यत्वे वैयधिकरण्येन आकृतिनिमित्तो यथा—