ते पुच्छिज्जहि वत्तडी जे तहि दिसिहि न एंति।
जेहि स दिट्ठि गोरडी ते दुक्करु जीअंति॥ २९॥
(ते प्रष्टव्याः वार्ता ये तस्या दिशो नायान्ति।
यैस्या दृष्टा गौरी ते दुष्करं जीवन्ति॥)
अत्र ते वार्तां प्रष्टव्याः ये तस्या दिशो नायान्तीति पूर्वापरविरोधिना वाक्येन केनचित् परिजनविधित्सितः प्रियाप्रवृत्तिप्रश्नो निषिध्यते।
द्वितीया यथा—(हे.प्रा. व्या. ४.४१८)
पिअसंगम कउ निद्दडी पिअहो परोक्खहो केम्ब।
मइं बिन्नि वि विन्नासिश्वा निद्द न एम्व न तेम्व॥ ३०॥
(प्रियसङ्गमे कुतो निद्रा प्रियस्य परोक्षस्य कथम्।
मया द्वे अपि विनाशिते निद्रा नैवं न तथा॥)